________________
अपत्यममतामोचनद्वारम्
सुतरां सिद्धम्, 'अन्ते या मतिः सा गतिः न्यायादिति ।।३.२।।
रत्न.–अथापत्यानामुपमानान्तरेण जीवं प्रतिबोधयन्नाह
आजीवितम् इति व्याख्या
—
-
-
हे जीव ! जीवितं मर्यादीकृत्य आजीवितं वा अथवा भवान्तरेऽपि - प्रेत्यभवेऽपि हृदि-हृदये अपत्यानि शल्यानि किं न वेत्सि ?, अपि तु शल्यान्येव विद्धि - इत्यर्थः। अथवा शल्यधर्मं निरूपयन्नाह - यैरपत्यलक्षणैः शल्यैर्विविधार्त्तिदानतोनानाचिन्ताप्रदानतः आत्मनो - जीवस्य समाधिः- स्वास्थ्यं निहन्येत यतः किंलक्षणैः ? चलाचलैः-अतिचपलैः, अन्यान्यपि शल्यान्यतिचपलानि दुःखदायीनि भवन्ति ।
·
६१
अत्र पालना-ऽशन-वस्त्रप्रदान- विवाह - वधूसीमन्तकरण-पौत्र-तत्पालनादिका अर्त्तयो ग्राह्या इति ।।३.२।।
[१०२] कुक्षौ युवत्याः कृमयो विचित्रा, अप्यस्त्र-शुक्रप्रभवा भवन्ति ।
न तेषु तस्या नहि तत्पतेश्च,
रागस्ततोऽयं किमपत्यकेषु ? ।।३.३ ।।
धनवि . - ननु स्वोदरोत्पन्नेष्वपत्येषु ममतामोचनं कथं क्रियते ? इत्याशङ्कायां स्वोदरोत्पन्नाः कीटकादयोऽपि भवन्ति - इति कृमिसाम्यं दर्शयन्नपत्यममतामोचनमुपदिशन्नाह -
'कुक्षौ' इति – युवत्याः स्त्रियाः कुक्षौ - गर्भाशये, अस्त्र-शुक्रप्रभवा-रजो रेतःसम्भवा विचित्रा-नानाप्रकाराः कृमयो- द्वीन्द्रियादयः कीटा अपि भवन्ति - जायन्ते, हि यतः कारणात् तेषु-कृमिषु तस्या-युवत्याः तत्पतेश्च भर्तुर्न रागो भवतीति, ततः कारणात्, अपत्यकेषु-कुत्सितसन्तानेषु तात्त्विकोपकारकर्तृत्वाभावेन कुत्सितकृमि - समानसन्तानेषु किं रागः क्रियते इति ? ।।३.३ ।।
रत्न – अथापत्यानां कृम्युपमादानेन रागापनयनमाह