________________
श्रीअध्यात्मकल्पद्रुमे बद्धोऽसि । अपरो राजादिः कञ्चन जनं चारके प्रक्षेप्तुमिच्छुः प्रथमं पादपाशेन नियन्त्रयति पश्चाद् बन्दिगृहे प्रक्षिपतीति, नारका यत्र प्रक्षिप्यन्ते स नारकचारक इत्युच्यते इति ।।३.१।।
[९९] आजीवितं जीव ! भवान्तरेऽपि वा,
शल्यान्यपत्यानि न वेत्सि किं हृदि ?| चलाचलैर्विविधार्तिदानतो
-ऽनिशं निहन्येत समाधिरात्मनः ||३.२।। धनवि.-अथेह लोके परलोके च पुनरपत्यानां शल्यरूपतां दर्शयन्नुपदिशति'आजीवितम्' इति - हे जीव ! आजीवितं-जीवितपर्यन्तं वा-अथवा भवान्तरेपरभवेऽपि तान्यपत्यानि-पुत्र-पुत्र्यादीनि हृदि-हृदये शल्यानि लोहकीलकादिप्रायाणि किं न वेत्सि ? - किं न जानासि ?, यैरपत्यैश्चलाचलैः सद्भिर्विविधार्तिदानतोनानाप्रकारचित्तपीडाप्रदानतः, आत्मनः-स्वस्य समाधि-चेतःस्वास्थ्यम्, अनिशंनिरन्तरं निहन्येत-विनाशविषयीक्रियेतेति; अत्र चलानि च-स्वल्पायूंषि अचलानिबह्वायूंषि चलाचलानि तैः, अथवा चलाचलैः-चपलैरिति, भावार्थस्तु स्वल्पायुष्कैरप्यपत्यैः शोकरूपातिर्दीयते, बह्वायुष्कैरपि पाणिग्रहणाद्यनेकप्रकरणेषु वित्तव्ययाद्यनेकार्त्तिर्दीयते; यद् वा चपलान्यपत्यानि प्रायः कुकर्मकराणि, इहलोके पित्रोश्चेतःस्वास्थ्याभावापादकानि भवन्ति, तत्रापि विशेषतः पुत्री, यतः[१००] जम्मंतीए सोगो, वड्ढंतीए पवड्ढए चिंता ।
परिणीयाए दंडो दुहियपिया निच्चदुहिय व्व ।। [ ] [१०१] नियंगेहसोसणी परगेहमण्डणी कलिकलंककुलभवणं ।
जेण न जाया धूया. ते सुहिया जीवलोगम्मि ।। [ ] इहलोके च चेतःस्वास्थ्याभावापादकत्वे, परलोके चेतःस्वास्थ्याभावापादकत्वं
१. निमगिह मु० ।