________________
३. अपत्यममतामोचनाधिकारस
[९८] मा भूरपत्यान्यवलोकमानो,
मुदाऽऽकुलो मोहनृपारिणा यत् । चिक्षिप्सया नारकचारकेऽसि,
दृढं निबद्धो निगडैरमीभिः ||३.१।। धनवि.-अनन्तरद्वारे स्त्रीममतामोचनमुपदिष्टं, परं स्त्रीममतामोचनेऽपत्यानि कुतो भवन्ति ? इत्याशङ्कायामपत्यममतामोचनद्वारमप्युपदिशन्नाह -
अथापत्याधिकारः अथापत्याधिकारः इत्यथापत्यममतामोचनाधिकार उपदेशविषयः क्रियते इत्यर्थः । तत्र प्रथममपत्यानां बन्धनरूपतां दर्शयन्नुपदिशति
'मा भूः' इति - 'तद्' इत्यध्याहारात् तत्-तस्मात्, हे आत्मन् ! त्वमपत्यानिपुत्र-पुत्र्यादीनि, अवलोकमानः-पश्यन् मुदाकुलो-हर्षाकुलो मा भू-मा भव, यद्यस्मात्, मोहनृपारिणा-मोहनामनृपलक्षणेन वैरिणा नारकचारके-नरकरूपकारागृहे चिक्षिप्सया-क्षेप्तुमिच्छया निगडै-लाहिशृङ्खलाप्रायैः, अमीभिरपत्यैर्दृढं-गाढं निबद्धोनियन्त्रितोऽसि, निगडनियन्त्रितस्याऽनिन्दितत्वमार्द्रकुमारादिनिदर्शनेन युक्तियुक्तमिति ।।३.१।।
रत्न.-अथापत्यममत्वमोचनाख्यस्तृतीयोऽधिकारो व्याख्यायते । प्रथमं अपत्योपरि मोहं मा कुर्वित्याह -
'मा भूः' इति, व्याख्या-हे आत्मन् ! त्वमपत्यानि-पुत्री-पुत्रान् विलोकमानो मुदा-प्रेम्णा आकुलो मा भूः-मा भव, यत् कारणात् त्वं, मोहनामा नृपः, स एवारिः, तेन नारकाणां चारके प्रक्षेप्तुमिच्छया अमीभिरपत्यैर्निगडै-हिजीरैर्दृढं
१. मुदि, मु० । २. लोह मु० । ३. अ०चि० १२२९ हिजीरश्च पादपाशो तथा 'शृङ्खलः' देशी० ६.११६, एवं देश्योऽयं शब्दः संस्कृतभाषायां स्वीकृतः - यतो द्वयोः शब्दकोश्योरेककर्तृत्वात् । एवं शब्दानां संस्कृत-देश्यत्वयो विवेकः कार्यः, तेनार्थबोधः सुगमः स्यात् ।