________________
५४
___ श्रीअध्यात्मकल्पद्रुमे सुष्ठु-शोभनं मुखं सा सुमुखी, तस्याः अत्र 'परं' इत्यध्याहारात्, परं तेषु प्रसिद्धेषु सप्तसु नरकेषु मोहोद्भवा-मोहोत्थिताः ताः शास्त्रप्रसिद्धा दशविधा भाविकदर्थना-भविष्यन्नानाप्रकाराः पीडा नो समीक्षसे-नो पश्यसीति, तत्र दशविधा वेदनाश्च नरकेषु - १ शीत, २ उष्ण, ३ क्षुधा, ४ तृषा, ५ कण्डू, ६ परवशता, ७ भय, ८ शोक, ९ ज्वर, १० व्याधिस्वरूपा ज्ञेयाः, तत्र नानाप्रकारत्वं च - [८७] "पञ्चेव य कोडीओ, रोगा तह अट्ठसद्विलक्खाणं ।
णवणउयं च सहस्सा पंचसया हुंति चुलसी उ ।। [द्वीपसागर पन्नत्ति-२२] ।। इति सप्तमनरके एतावतां रोगाणां सत्त्वादिति ।।२.६ ।। रत्न.-अथ ललनाङ्गनिरीक्षण-ललनाङ्गभोगयोः फलमाह - विमुह्यसि इति, व्याख्या-हे आत्मन् ! त्वं स्त्रिया मुखेक्षणादीनि-वदननेत्रप्रभृत्यङ्गानि, अभिवीक्षमाणः-संमुखं विलोकयन् विमुह्यसि-मोहं प्राप्नोषि, आदिशब्देनाधर-स्तनाद्यवयवग्रहणं, किंलक्षणायाः ? - स्मेरे-उन्निद्रे दृशौ-चक्षुषी यस्याः सा तस्याः, पुनः किंलक्षणायाः ? - सुष्ठु मुखं यस्याः सा तस्याः, स्त्र्य ङ्गेषु नेत्र-मुखयोरेव प्राधान्यख्यापनार्थं विशेषणद्वय्युक्ता, परमेतेषु निरयावलिकोपाङ्गप्रज्ञप्तस्वरूपेषु नरकेषु ता निरयावलिकोपाङ्गप्रज्ञप्ताः तप्तायःपुत्रिकालिङ्गनादिकाः भाविन्यश्च ताः कदर्थनाश्च भाविकदर्थना:-भाविन्यो वेदनाः प्रति नो समीक्षसे-नो पश्यसि, किंलक्षणाः ? - मोहात् स्त्र्याद्यङ्गनिरीक्षणजनितादुद्भवन्तीति मोहोद्भवाः ।।२.६।। - [८९] अमेध्यभस्त्रा बहुरन्ध्रनिर्यन्
मलाऽऽविलोद्यत्कृमिजालकीर्णा | चापल्यमायाऽनृतवञ्चिका स्त्री,
संस्कारमोहान्नरकाय भुक्ता ।।२.७।। धनवि.-अथ स्त्रीशरीरस्वरूपं स्त्रीस्वभावस्वरूपं स्त्रीभोगफलस्वरूपं च