________________
ललनाममत्वमोचनद्वारम्
वस्तु-अर्थस्तस्य विचार - इदं पवित्रमिदमपवित्रमिति विमर्शः, तं इच्छत्-वाञ्छदिति नपुंसकलिङ्गे एकवचनान्तं सम्बोधनपदमित्यक्षरार्थः भावार्थस्तु शुच्यशुचिवस्तुविचारकेण पुरुषेणापवित्रवस्तुभूतेभ्यो नारीशरीरेभ्यो निवृत्तिः कार्येति ।।२.५।।
-
,
रत्न. - ' अङ्गेषु' इति, व्याख्या - हे चेतः ! - हे मनः ! कामिनीनां - स्त्रीणां येष्वङ्गेषु शरीरेषु त्वं मुह्यसि - मोहग्रस्तं भवसि परं हे चेतस् ! त्वं प्रसीद प्रसन्नं भव, प्रसन्नीभूय किं कुर्वित्याह-क्षणं तेषां कामिन्यङ्गानामन्तः- मध्ये विशप्रविश, प्रविश्य सम्यक् स्वरूपं विचारयेत्यर्थः, सम्यक् समीक्ष्य विचार्य च पुनस्तेभ्यः - कामिन्यङ्गेभ्यो विरम - निवर्त्तस्व । किंलक्षणेभ्यः ? अशुचीनाम्अपवित्रपुद्गलानां पिण्डकेभ्यः समूहेभ्यः, किं कुर्वत् ? इच्छत् कम्प्रति ? शुचि चाशुचि च शुच्यशुचिनी, ते च ते वस्तुनी च शुच्यशुचिवस्तुनी, तयोर्विचारम्-इमे शुचय इमे अशुचयः पदार्था इति विवेकं कुर्वदित्यर्थः ।।२.५।।
·
[८६] विमुह्यसि स्मेरदृशः सुमुख्या, मुखेक्षणादीन्यभिवीक्षमाणः । समीक्षसे नो नरकेषु तेषु,
-
-
मोहोद्भवा भाविकदर्थनास्ताः ।।२.६ ।।
५३
-
धनवि . - ननु स्त्रीशरीरमध्येऽपावित्र्यं भवतु मा वा, परं
[८७] "मक्षिका शकटं घृतं राजमार्गः प्रदीपनम् ।
स्त्रीवक्त्रं बालवक्त्रं च, पवित्राणि युगे युगे " ।। [ ] इति वचनात्, स्त्रीमुखादीनि पवित्राणि रमणीयानि च कथं न कमनीयानि भवन्ति ? इत्याशङ्कायामुपदिशति
'विमुह्यसि' इति - स्मेरदृशः सुमुख्या मुखेक्षणादीनि-वदन-नयनादीनि, आदिपदादधर-पयोधरादीनि, अभिवीक्षमाणः- अभिमुखं पश्यन् विमुह्यसि-विमूढो भवसीति, अत्र स्मेरे-विकसिते दृशौ - लोचने यस्याः सा स्मेरदृक्, तस्याः, तथा