________________
ललनाममत्वमोचनद्वारम् दर्शयन्नुपदिशति
'अमेध्य' इति – अमेध्यस्य विष्ठाया जुगुप्सनीयवस्तुनो वा भस्त्रा-चर्मप्रसेविका, चर्मकोथलिका इत्यर्थः, बहुभिः अनेकैरेकादशभिर्वैद्यकशास्त्रानुसारेण द्वादशभिर्वा रन्धैः-छिद्रैर्निर्यन्-निर्गच्छन् मलो-भुक्ताहारकिट्टं, तेनाऽऽबिला-मलिना उद्यन्तउत्पद्यमानाः कृमयो-द्वीन्द्रिया जीवाः, तेषां जालं समूहः तेन कीर्णा- व्याप्ता, चापल्यं च-चपलता, माया च शठता, अनृतं च-असत्यं तैर्वञ्चिका-वञ्चनपरा, संस्कारमोहात्-संस्कारश्च - अनादिभवानुभूतविषयाविस्मृतिः, तेन मोहो- मौढ्यं तस्मात्, भुक्ता चतुरशीत्यासनकरणादिनाऽतिगृद्ध्या सेविता, एवंविधा स्त्री नरकायनरकदुर्गतये भवति। (१) अमेध्यभस्त्रात्वं
[९०] "यकृत्-छकृन्-मलश्लेष्म-मज्जा -ऽस्थिपरिपूरिताः ।
-
स्नायुस्यूता बहीरम्याः, स्त्रियश्चर्मप्रसेविकाः ।।[ ]।। इत्यादिना स्पष्टम् (२) बहुरन्ध्रनिर्यन्मलाबिलत्वं च प्रत्यक्षं, (३) उद्यत्कृमिजालकीर्णत्वं च [९१] "रक्तजाः कृमयः सूक्ष्मा, मृदुमध्या - ऽधिशक्तयः ।
-
जन्मवर्त्मसु कण्डूतिं जनयन्ति तथाविधाम् ।। ]||
इत्यादि वात्स्यायनशास्त्रप्रसिद्धं, (४) चापल्य-माया-नृतादयो दोषा जगद्विदिता एवेति । संस्कारमोहाद् भुक्ता नरकाय भवतीति
1
-
[९२] "सयसहस्सनारीणं, पोट्टं फाडेइ निग्घिणो । सत्तट्ठमासिए गब्भे, तडप्फडंते निकंतइ ।।[ ]||
।
[९३] ता तस्स जत्तियं पावं, तत्तिअं चेव चउगुणं इक्कसित्थीपसंगेणं, साहू बंधइ मेहुणे ।।[
]||
५५
[९४] साहुणीए सहस्सगुणं मेहुणेकैकंसि सेविए । कोडीगुणं बिइज्जेणं, तइए बोही विणस्सइ ।। [
१. इक्क इत्थि. मु० । २. बंधिज्ज मु० । ३. ०णेक्कसि ।
]||