________________
५०
रत्न. -अथ पुरुषादपि विशेषतः स्त्रीशरीराणामंशुचित्वमाह
'चर्मा -ऽस्थि' इति, व्याख्या - चर्म च अस्थि च मज्जा च अन्त्रं च वसा च अस्रं च मासं च अमेध्यं चर्मास्थि... मेध्यानि, तान्यादौ येषां तानि चर्मा... - मेध्यादीनि, आदिशब्देन मूत्र - कफ - श्लेष्मादिग्रहणं, तेषामशुचयः - अपवित्रा अस्थिराःक्षणक्षयिणो ये पुद्गलाः, तेषां स्कन्धेषु, हे आत्मन् ! किं रम्यं - सुन्दरं पश्यसि ?, एषु किमपि सुन्दरं नास्तीति मा पश्य इत्यर्थः, स्कन्धेषु किं - लक्षणेषु ? स्त्रिया देहः-शरीरं, तस्य पिण्डाकृतिः - सान्द्रो य आकारः, तया संस्थितेषु संस्थानमापन्नेषु, चर्मास्थ्यादिपदानि सुगमानीति न व्याख्यातानि
[८२] "पिण्डो वृन्दे जपापुष्पे, गोले बोलेऽङ्ग- सिल्हयोः ।
कवले, पिण्डं तु वेश्मैकदेशे जीवनाऽऽयसोः ।। [अने.२.१२१.]।। बले सान्द्र" [इत्यनेकार्थ] वचनात् स्कन्धः-समूह इति ।।२.२।।
श्रीअध्यात्मकल्पद्रु
[८३] विलोक्य दूरस्थममेध्यमल्पं, जुगुप्ससे मोटितनासिकस्त्वम् ।
भृतेषु तेनैव विमूढ ! योषा
वपुष्षु तत् किं कुरुषेऽभिलाषम् ? ।।२.३ ।।
धनवि . – पूर्वश्लोके ललनायां अरमणीयताया 'दर्शनाऽनन्तरमनभिलषणीयतां दर्शयन्नुपदिशति
-
-
'विलोक्य' इति हे विमूढ ! - हे विशेषेण मूर्ख ! यतस्त्वं दूरस्थम्अनासन्नम्, अल्पं-किञ्चिन्मात्रम्, अमेध्यं विष्ठादि जुगुप्सनीयं वस्तु विलोक्यदृष्ट्वा, मोटितनासिको-वक्रीकृतनक्रो जुगुप्ससे-जुगुप्सां कुरुषे, तत्-तस्मात् तेनैवअमेध्येन [ एवं] भृतेषु भरितेषु योषावपुष्षु-नारीशरीरेषु, अभिलाषं वाञ्छां किं कुरुष ? किं करोषीत्यर्थः ।।२.३।।
१. दर्शनाद्, अंत... मु० |
-