SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ललनाममत्वमोचनद्वारम् __४९ गिरो-वाण्यः यासां तास्तासु, ताः प्रणयिनीः प्रति शिलाः किं न वेत्सि ? - किं न जानासि । अत्रापि काकूक्त्या, अपि तु विद्धि शिलाः, किंलक्षणाः ? - गले बद्धा गलबद्धाः । केषां ? - नृणां, किं कुर्वतां ? - पततां, कस्मिन ? - भव एव वार्द्धिः-समुद्रः, तस्मिन्, एकं तावत् समुद्रपतनं विषमम्, उत च गले शिलाः बद्धाः, तथैककस्यापि पुंसः संसारवा निर्गमो दुःशकः, उत च स्त्रीद्वितीयस्य विशेषत इति भावः, खलु निश्चितार्थे ।।२.१।। [८१] चर्मा-ऽस्थि-मज्जा-ऽन्त्र-वसा-स्र-मांसा ऽमेध्याद्यशुच्यस्थिरपुद्गलानाम् । स्त्रीदेहपिण्डाकृतिसंस्थितेषु, स्कन्धेषु किं पश्यसि ? रम्यमात्मन् ! ||२.२।। धनवि.-अथ ललनास्वरमणीयतां दर्शयति - 'चर्माऽस्थि' इति । हे आत्मन्-हे प्राणिन् ! स्त्रीदेहपिण्डाकृतिसंस्थितेषु, चर्मा-ऽस्थि-मज्जा-ऽन्त्र-वसा-ऽस्र-मांसा-ऽमेध्याद्यशुच्यस्थिरपुद्गलानां स्कन्धेषु रम्यंरमणीयं, किं पश्यसि ? - किं विलोकयसीत्यन्वयः, अत्र चर्म च-शरीरत्वम्, अस्थि च-कीकसं पञ्चमधातुतया प्रसिद्धं, मज्जा च-षष्ठधातुतया प्रसिद्धा शरीरान्तर्गता ज्ञेया, अन्त्राणि च-शरीरान्तर्गता लोकप्रसिद्धा अवयवविशेषाः, [=आंतरडां] वसा च-मेदश्चतुर्थधातुतया प्रसिद्धः, अत्रं च-रुधिरं, द्वितीयधातुतया प्रसिद्धं, मांसं च-पिशितं तृतीयधातुतया प्रसिद्धं, अमेध्यं च-अपवित्रमर्थात् मूत्रपुरीष-श्लेष्मादिकं, तान्यादौ-प्रथमं येषां ते च ते अशुचयश्च-अपवित्रास्ते च तेऽस्थिराश्च-विनाशिनस्ते च ते पुद्गलाश्च-पूरण-गलनधर्माणस्ते तथा [चर्मा...पुद्गलाः] तेषां चर्मा-ऽस्थि-मज्जा-ऽन्त्र-वसा-ऽस्र-मांसा-मेध्याद्यशुच्यस्थिरपुद्गलानाम्, अत्रादिपदात् पूत्यादीनां, स्कन्धेषु-एकाकारतया जाता(जातेष्वड)नन्तपरमाणुषु रम्यं-रमणीयं किं पश्यसि ? - किं विलोकयसीत्यर्थः, अथ स्कन्धानेव च विशेषयति-स्त्रीणां-ललनानां देहरूपो यः पिण्डः, तस्या-ऽऽकृति:आकारः तत्र संस्थितेषु-सन्निविष्टेषु-इति ।।२.२।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy