SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ २. ललना-ममत्वमोचनाधिकारः [७९] मुह्यसि प्रणयचारुगिरासु, प्रीतितः प्रणयिनीषु कृतिन् ! किम् ? | किं न वेत्सि पततां भववार्धी, ता नृणां खलु शिला गलबद्धाः ? ।।२.१ ।। धनवि.—नन्वनन्तरद्वारे समतोक्ता, सा च ममतायां सत्यां कुतः समायाति ? - इति ममतामोचन-द्वाराणि वक्तुकामो 'ममतामूलं च स्त्री' इति प्रथमं स्त्रीममतामोचनद्वारमाह 'अथ स्त्रिय' इति, समताद्वारनिरूपणानन्तरं स्त्रियो - ललना ममतामोचनविषया उपदिश्यन्ते इत्यर्थः । तत्रापि स्त्रीममतामोचनाऽसाधारणकारणं स्त्रीमोहमोचनं प्रथममुपदिशति - हे कृतिन् ! हे विद्वन् ! प्रणयेन स्नेहेन चार्वी - मनोहरा गिरा वाणी यासां तास्तथा तासु, अत्र 'गिरासु' इत्याबन्तं सप्तमीबहुवचनान्तं ज्ञेयं, यतो [ ८० ] 'वष्टि भागुरिरल्लोपमवाऽप्योरुपसर्गयोः । आपं चैव हसऽन्तानां यथा वाचा निशा दिशा ।। [ ]।।' इति, प्रणयचारुगिरासु वल्लभासु, प्रीतितः प्रेमतः त्वं किं किमु मुह्यसि - मोहं यासीति; अव्ययानामनेकार्थत्वादत्र खलुशब्दो हेत्वर्थे, तेन खलु यतो हेतोर्भववार्धीसंसारसागरे पतताम्-अधो गच्छतां नृणां नराणां ताः प्रणयिन्यो गलबद्धाः कण्ठनियन्त्रिताः शिलाः-स्थूलपाषाणविशेषाः किं न वेत्सि ? किं न जानासीत्यर्थः । ।२.१ ।। रत्न. - अथ द्वितीयोऽधिकारो ललनायां ममत्वमोचनाख्यो व्याख्यायते, तत्र स्त्रीषु मोहनिरासे प्रथमं वृत्तमाह - 'मुह्यसि' इति, व्याख्या - हे कृतिन् ! पण्डित त्वं प्रीतितः- प्रेमतः प्रणयिनीषु किं मुह्यसि ? किं मोहं प्राप्नोषि काकूक्त्या प्रश्नः, अपि तु मा मुह्य इत्युपदेशः, किंलक्षणासु ? - प्रणयो गर्भे-मध्ये यासां ताः प्रणयगर्भा १. काकुध्वनिः - मु० । २. 'प्रणयगर्भगिरासु' इति पाठो रत्न. टीकायाः प्रतौ मूलत्वेन । 1 - - 1
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy