SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४७ समताद्वारम् सचेतना इति, व्याख्या-पुद्गलपिण्ड इति-पुद्गलानां समुदायः, पुद्गलस्कन्ध इत्यर्थः, तमाश्रित्य जीवन्तीति पुद्गलपिण्डजीवाः, एवंविधा ये सचेतना:चेतनावन्तः, सर्वे जीवा इत्यर्थः, यावन्तः सचेतनास्ते पुद्गलपिण्डमाश्रित्य जीवन्तीति, स पुद्गलपिण्डो जीवमुक्तः अचेतनो भवतीति, वा पुनः परेअन्येऽणुमयाः अनन्त-परमाणुनिष्पन्नस्कन्धमया घट-पटादयोऽर्थाः-पदार्थाः सन्ति, एतेनाऽचेतनास्ते इत्युक्तम्, ते सचेतना अचेतनाश्चैवं द्वयेऽप्यनन्तान् परिणामभावान् परिणामचेष्टा वा दधति ।। यत उक्तमनेकाथ - [७५] प्रागग्रे. .................... । .................. भावोऽभिप्रायवस्तुनो [अनेका० २.५२१] [७६] स्वभाव-जन्म-सत्ता-ऽऽत्मक्रिया-लीला-विभूतिषु ।। [२.५२२] ।। चेष्टायोग्ये बुधे जन्तौ, शृङ्गारादेश्च कारणे, ।। [७७] आत्मशब्दप्रवृत्तिहेतौ च [२.५२३] इति, तत्-ततो हेतोस्तेषु-सचेतनाचेतनेष्वर्थेषु तु पुनः कः पुमान् रागरोषौ प्रत्यर्हति? - योग्यो भवति, अपि तु विद्वान् जनो नाहतीत्यर्थः, कर्तुमिति गम्यम्, अथवा परिणामभावान् परिणामत्वानीति व्याख्येयम् ।।१.३० ।। [७८] श्री शान्तिचन्द्रवरवाचकदुग्धसिन्धु लब्धप्रतिष्ठवरवाचकरत्नचन्द्रः । अध्यात्मकल्प-फलदप्रथमाधिकारे, वृत्तिं चकार ललिताऽर्थ-पदप्रपञ्चाम् ।।१।। इति समतैकलीनचित्त इति प्रथमोऽधिकारो व्याख्यातः ।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy