________________
४६
[७४] सचेतनाः पुद्गलपिण्डजीवा, अर्थाः परे चाणुमया द्वयेऽपि । दधत्यनन्तान् परिणामभावांस्
-
श्रीअध्यात्मकल्पद्रु
धनवि . - अथ समताद्वारोपसंहाराय समताप्रतिपक्षौ राग-द्वेषौ परिहर्त्तव्यावित्युपदिशति
तत् तेषु को न्वर्हति राग-रोषौ ? ।।१.३०।।
‘सचेतनाः' इति – पुद्गलपिण्डः शरीरं, तदधिष्ठिता जीवाः-प्राणिनः, अर्थाःपदार्थाः स्त्री-सर्पादयः सचेतना:- चैतन्यवन्तः च पुनः परे अचेनना अणुमयाःपरमाणुमयाः स्वर्ण-लोहादयोऽर्थाः सन्ति, एते द्वयेऽपि पदार्था अनन्तान् परिणामभावान्-अनेकान् पर्यायान् दधति-धरन्ति; तत्-तस्मात् नु इति वितर्के तेषु स्त्री- सर्पादिषु स्वर्ण- लोहादिषु च राग-द्वेषौ कर्तुं कः पुमान्, अर्हति-योग्यो भवति ?, न कोऽपीत्यर्थः । भावार्थस्तु सचेतनानां जीवद्रव्यापेक्षया भवान्तरे देवत्व-मानुषत्व-तिर्यक्त्व-नारकत्व - पितृत्व- पुत्रत्व-पतित्व-पत्नीत्वादिपर्यायाणां इह भवेऽपि च मित्रत्व-शत्रुत्व-स्वामित्व-सेवकत्वाद्यनेकपर्यायाणाम् च परावृत्त्या प्रियत्वाऽप्रियत्वसम्भवात्, अचेतनानां च सुवर्ण-लोहादीनां कालान्तरेण सुबुद्धिप्रधानपरिकर्मितपरिखापानीयवद्, अनेकपर्यायाणां परावृत्त्या प्रियत्वा ऽप्रियत्वसंभवाच्च सचेतना-ऽचेतनेषु पदार्थेषु राग-द्वेषौ नोचिताविति । ।१.३० ।।
इति श्रीतपोगच्छनायकश्रीमुनिसुन्दरसूरिनिर्म्मितस्य तत्पट्टपरम्पराप्रभावक
-
पातसाह-श्रीअकब्बरप्रतिबोधकभट्टारक श्रीहीरविजयसूरिश्रीविजयसेनसूरिप्रमुखमहापुरुषपरिशीलितस्य षोडशशाखस्याध्यात्मकल्पद्रुमस्य अधिरोहणीटीकायां सकलशास्त्रारविन्दप्रद्योतन-महोपाध्यायश्रीकल्याणविजयगणि-शिष्योपाध्यायश्रीधनविजयगणिविरचितायां समतानाम्नी प्रथमपदपद्धतिः ।।१।।
रत्न. - अथ जीवानां पुद्गलानां च नानापरिणामपरिणतत्वदर्शनेन रागद्वेषपरिहारमाह