________________
समताद्वारम्
४५
'यांश्च शोचसि गता' इति, व्याख्या - हे आत्मन् ! त्वं यान् मृतान् शोचसि शोकं कुरुषे, किंलक्षणः ? इतिधिया विधुर आत्मा यस्य सः, इतीति किं ? इमे मम स्नेहला-ममोपरि स्नेहवन्तः किं गताः ? परं तैः स्वजनैः स्नेहलैस्त्वमनन्तेष्वेव भवेषु निहतोऽसि - मारितोऽसि भवता च - त्वयापि ते अनन्तेष्वेव भवेषु निहता वर्त्तन्त इति ।।१.२८ ।।
·
[७३] त्रातुं न शक्या भवदुःखतो ये,
त्वया न ये त्वामपि पातुमीशाः । ममत्वमेतेषु दधन् मुधाऽऽत्मन् !, पदे पदे किं शुचमेषि ? मूढ ! ।।१.२९।।
धनवि
I. -अथ साम्यानयनाय शोकापनोदनोपायं दर्शयन्नुपदिशति
—
,
'त्रातुं न शक्या' इति – ये स्नेहलास्त्वया भवदुःखतः संसारापायात्, त्रातुं - पातुं न शक्याः, शक्यन्ते इति शक्याः, न शक्तिविषया इत्यर्थः च पुनर्ये स्नेहलाः, त्वामप्यनाथी ऋषिमिव भवदुःखतः पातुं त्रातुं न ईशा-न समर्था भवन्ति, ततः कारणात्, हे आत्मन् ! हे मूढ ! मुधा निरर्थकमेतेषु स्नेहलेषु - ममत्वं-'ममैते ममैते' इति ममतां दधत्-धरन् पदे पदे-स्थाने स्थाने किं शुचंशोकम्, एषि-यासीत्यर्थः, अत्र 'हवः शिति' [सि. हे. ४-१-१२] इति सूत्रेण द्विर्भावे 'अन्तो नो लुग्' [सि.हे. ४-२-१४] इत्यनेन नलुकि दधदिति प्रयोगः शतृप्रत्ययान्त इति ।।१.२९।।
रत्न. - अथ न कश्चित् कान् प्रति त्रातुं शक्तः इति दर्शयन्नाह
त्रातुं न शक्या' इति, व्याख्या- हे आत्मन् ! ये त्वया भवदुःखतस्त्रातुं-रक्षितुं
न शक्या-न शकनीया, ये च त्वामपि पातुं रक्षितुं न ईशा:- न समर्थाः, हे मूढ !
-
हे आत्मन्, एतेषु स्वजनादिषु त्वं ममत्वं दधत् पदे पदे-स्थाने स्थाने किं शुचं - शोकमेषि-प्राप्नोषि ?, अपि तु ममत्वं शोकं च त्यज, साम्यं भजेत्युपदेशः ।।१.२९ ।।
―