________________
४४
श्रीअध्यात्मकल्पद्रुमे ___ 'किं कषायकलुष' - इति, व्याख्या - हे आत्मन् ! ननु-निश्चितं केषुचिज्जनेष्वरिधिया-वैरिबुद्ध्या त्वं स्वं-स्वकीयं मनः प्रतिकषायैः कलुषंमलिनं किं कुरुषे ? अपि तु मा कुर्वित्यर्थः । यतस्तेऽपि जनाः ते-तव हि निश्चितम्, अनन्तभवेषु जनकादिरूपैः-पितृ-पुत्र-मातृ-भ्रातृ-सम्बन्धैरिष्टतां दधुः, यतः - [वैराग्यशतक [७१] "न सा जाई न सा जोणी, न तं ठाणं न तं कुलं ।
न जया न मुया जत्थ, सव्वे जीवा अणन्तसो," त्ति-१.२७। [२३] ।।
[७२] यांश्च शोचसि गताः किमिमे मे,
स्नेहला ? इति धिया विधुरात्मा | तैर्भवेषु निहतस्त्वमनन्ते
ष्वेव तेऽपि निहता भवेष च ।।१.२८ ।। धनवि.-ननु स्वोपकारिषु वियुक्तेषु सत्सु शोकाकुलितचित्तेन कथं समता काया ? इत्याकाङ्क्षायामुपदिशति - ___ 'यांश्च शोचसि' इति - चकारोऽवधारणे, इमे प्रत्यक्षा मे-मम स्नेहला:स्नेहपात्राणि स्वजनाः किं गता-किं परलोकं प्राप्ता इति धिया-एवं प्रकारबुद्ध्या विधुरात्मा-व्याकुलान्तःकरणः सन् यानेव स्वजनान् शोचसि-शोकविषयीकरोषि तैः स्वजनैः, अनन्तेषु भवेषु - जन्मसु त्वं निहतो-घातविषयीकृतोऽसि, च पुनस्तेऽपि स्वजनानाः[भवता]त्वयाऽनन्तेषु भवेषु निहता-घातविषयीकृता इति । भावार्थस्तु "अयण्णं भन्ते ! जीवे एयस्स जीवस्स वेरियत्ताए घायगत्ताए" इत्यादि-उववण्णपुव्वे हन्ता गोयमा ! इत्यादिना, अदुवा अणन्तखुत्तो इत्यन्तेन' भगवती[सूत्र]पाठेन श्रेणिक-कोणिकाद्युदाहरणेन च स्पष्ट एवेति ।।१.२८ ।।
रत्न.-अथ य एव स्वजनास्त एव शत्रव इति दर्शयन्नाह -
१. 'वल्लभत्वं' इति मु० अधिकम् पदम् । २. भवता पाठः मूलत्वेन, को०