________________
समताद्वारम्
धनवि . - अहो इत्याश्चर्ये यद् - यस्मात् कारणात् तस्य सुखस्य साधनतयाहेतुतया प्रतिभातै:- मनसा मिथ्याज्ञातैस्तैरनन्तरोक्तैर्यमादरक्षकैर्धनादिभिर्भवेऽपि - संसारेऽपि सुखं सौख्यमिच्छन्-वाञ्छन् प्रतिकलं- प्रतक्षणं विषयेषु शब्दादिषु मुह्यसि - मोहं गच्छसि तु पुनः साम्यसतत्त्वे साम्यस्वरूपे प्रीतिं प्रेम नैषि-न गच्छसीत्यर्थः । ।१.२६ ।।
रत्न. - अथ धनादिभिर्जीवस्य मूढत्वमाह
'तैर्भवेऽपि' इति, व्याख्या - अहो इति सम्बोधने, हे आत्मन् ! तैर्धनादिभिः कारणभूतैर्यत् त्वं भवेऽपि संसारेपि सुखमिच्छन् - वाञ्छन् विषयेषु शब्द-रूपगन्ध-रस-स्पर्शेषु मुद्द्ह्यसि मोहं प्राप्नोषि तैः कथम्भूतैः ? - तस्य सुखस्य साधनतया प्रतिभातैः, कथं ? - प्रतिकलं प्रतिसमयं तु पुनः, साम्यस्य सतत्त्वंस्वरूपम्, तस्मिन् प्रीतिं प्रेम नोपैषि-न प्राप्नोषि अपिग्रहणेनैकान्त-दुःखमये संसारे इति सूचनमिति । ।१.२६ ।।
"
-
[७०] किं कषायकलुषं कुरुषे स्वं,
४३
केषुचिन्ननु मनोऽरिधियाऽऽत्मन् ! | तेऽपि ते हि जनकादिकरूपैरिष्टतां दधुरनन्तभवेषु ।।१.२७ ।।
धनवि . - स्वापराधिषु वैरिषु कथं समता कार्या ? इत्याकाङ्क्षायामुपदिशति -
1
'किं कषाय' इति - नन्विति वितर्के हे आत्मन् ! केषुचित् प्राणिषु, अरिधिया- वैरिबुद्ध्या कषायकलुषं क्रोधादिकषायमलिनं स्वं स्वकीयं मनश्चित्तं किं कुरुषे, हि यतस्तेऽपि वैरित्वव्यवहारभाजः प्राणिनः, ते तव जनकादिकरूपैःजननी-जनकत्वादिस्वरूपैः इष्टतां प्रीतिपात्रताम्, अनन्तभवेषु- अनन्तजन्मसु दधुःधरन्ति स्मेति । यदागमः - " अयं णं भंते ! जीवे सव्वजीवाणं माइत्ताए" इत्यादि, 'अणन्तखुत्तो' इत्यन्त [भग. सूत्र] इति ।। १.२७ ।।
रत्न. - अथानेकशः पितृ-मात्रादिसम्बन्धदर्शनेनात्मानं प्रतिबोधयन्नाह
-