________________
श्रीअध्यात्मकल्पद्रुमे धनैः-द्रव्यैरपि, वाऽथवा परिजनैः-दास-दासीप्रमुखपरिवारैरपि, वाऽथवा स्वजनैःमाता-पितृ-भ्रातृ-पुत्र-कलत्राद्यैः स्वजातीयैरपि, वाऽथवा दैवतैः-देववृन्दैरपि, अथवा परिचितैः-पूर्वसेवासाधनादिना बहुकालाभ्यस्तैर्मन्त्रैः-साऽधिष्ठायकोंकाराद्यक्षरसंयोगैरपि, सुभूम-रावणादिवत् कृतान्ताद्-यमात् नो रक्ष्यते-नैव त्रायते; हे मूढ-हे मूर्ख ! एवमनेन प्रकारेणोक्तं जगत्स्वरूपं किन्नो विभावयसि? - किं नो विचिन्तयसि ||१.२५ ।।
नन्वत्र वृत्तद्वये क्रियाभेदे सति युग्मरूपता कथं जायते ? - इत्याशङ्कायामाह-अर्थतो युग्ममिति, भावार्थतो युग्ममित्यर्थः ।।
रत्न.-अथ काव्यद्वयेन जीवस्य मृत्युपारवश्यमाह - 'एष मे जनयिता' इति, व्याख्या-एष इति प्रत्यक्षं दृश्यमानो मे-मम जनयिता-जनकोऽस्ति, सन्ति च यथार्ह योज्यं, तथा इयं जननी, पुनरिमे बन्धवो-भ्रातरः, डमरुकमणिन्यायेनेमे इत्यस्योभयत्रापि योजनादिमे स्वजनागोत्रिणश्च, तथैतद्रव्यमिति जातं ममत्वं यस्य स इति जातममत्वः सन हे आत्मन् ! स्वमात्मानं कृतान्तवशं-यमपराधीनं नैव पश्यसि-नैव विलोकयसि ?, अपि तु स्वं कृतान्तपराधीनं विलोकयेति व्यङ्ग्यम् ।।१.२४।।
रत्न.-'नो धनैः' इति व्याख्या-अत्र-संसारे खलु-निश्चितं कोऽपि जनो धनैः-स्वर्ण-रूप्य-मण्यादिभिः कृतान्ताद्-यमाद् नो रक्ष्यते, एवं परिजनैर्वा अथवा स्वजनैर्दैवतैः-दैवैस्तथा परिचितैः-अहरहर्जापैर्न साधितैर्मन्त्रैरपीति योज्यम्, हे मूढ-हे रागग्रस्त ! एवं किं नो विभावयसि-न विचिन्तयसि ?, अपि तु सम्यग् विभावयेत्यर्थः ।।१.२५।।
[६९] तैर्भवेऽपि यदहो सुखमिच्छं स्
तस्य साधनतया प्रतिभातैः | मुह्यसि प्रतिकलं विषयेषु, प्रीतिमैषि न तु साम्यसतत्त्वे ||१.२६ ।।
१. भावः - इति. मु० ।