________________
समताद्वारम
४१
[६६] एष मे जनयिता जननीयं,
बन्धवः पुनरिमे स्वजनाश्च । द्रव्यमेतदिति जातममत्वो, नैव पश्यसि कृतान्तवशं स्वम् ।।१.२४ ।।
[६७] नो धनैः परिजनैः स्वजनैर्वा,
दैवतैः परिचितैरपि मन्त्रैः । रक्ष्यतेऽत्र खलु कोऽपि कृतान्तान्
नो विभावयसि मूढ ! किमेवम् ? ||१.२५।। धनवि.-नन्वात्मीयवस्तुनि ममतापरिहारेण समतास्वीकारः केन क्रियते ?, इत्याशङ्कायां यमभयेन सर्वत्र ममतां निरस्यन्नुपदिशति -
'एष मे' इति – एषः प्रत्यक्षेण दृश्यमानो मे-मम जनयिता वर्त्तते, च पुनरियं जननी-मम माता वर्तते, च पुनरिमे मम बन्धवो-भ्रातरो वर्तन्ते, च पुनर्मम इमे स्वजना-सगोत्रा वर्तन्ते, च पुनः मम एतद् द्रव्यम्-धनधान्यादि नवविधपरिग्रहलक्षणं धनं वर्त्तते, इति अमुना प्रकारेण जातममत्व:-सञ्जातममतापरिणामः स्वम्आत्मानं कृतान्तवशं-यमायत्तं न पश्यसि-न विलोकयसीत्यन्वयः, भावार्थस्तु - [६८] 'चेतोहरा युवतयः स्वजनोऽनुकूलः,
सद्बान्धवाः प्रणयगर्भगिरश्च भृत्याः । गर्जन्ति दन्तिनिवहास्तरलास्तुरङ्गाः, संमीलने नयनयोर्नहि किञ्चिदस्ति' ।। [ ]।। इति
पद्यभावनया स्पष्ट एव ।।१.२४ ।। धनवि.-ननु धन-स्वजन-परिजनेषु सत्सु कुतः कृतान्तवशता? इत्याशङ्कायामर्थतो युग्मेनोपदिशति -
'नो धनैः' इति, 'तैर्भवेऽपि' इति (१) खलु-निश्चितम् अत्र-जगति कोऽपि