________________
४०
[६५] स्वप्नेन्द्रजालादिषु यद् वदाप्तैरोषश्च तोषश्च मुधा पदार्थैः । तथा भवेऽस्मिन् विषयैः समस्तैरेवं विभाव्यात्मलयेऽवधेहि ।।१.२३ ।।
धनवि.–नन्विन्द्रियपञ्चकप्रभवे विषयसुखे स्वाधीने सति किं समतासुखेन ?
इत्याकाङ्क्षायामुपदिशति
'स्वप्नेन्द्र' इति
यद्वद्-यथा स्वप्नेन्द्रजालादिष्वाप्तैः प्राप्तैः पदार्थःदारिद्र्यादिभिः साम्राज्यादिभिर्वा रोषः - ईर्ष्या च पुनस्तोष: तुष्टिर्मुधा - निष्फलो भवति, अत्र स्वप्नाश्च निद्रावस्थाज्ञानविशेषा, इन्द्रजालानि च नाटकविशेषाः, ते आदौ येषां ते तथा तेषु स्वप्नेन्द्रजालादिषु, अत्रादिपदात् मरुमरीचिकादिभ्रमपरिग्रहः, तथा-तद्वद् अस्मिन्ननुभूयमाने भवे संसारे समस्तैः सर्वैरिन्द्रियपञ्चकप्रभवैर्विषयैःइष्टानिष्टैराप्तैः-प्राप्तैर्मुधा रोषस्तोषश्च कर्त्तव्यो भवति; भावार्थस्तु स्वप्नेन्द्रजालादिना प्राप्तेषु विषयेषु साक्षात् प्राप्तेषु च विषयेषु यावदनुभवं सुख-दुःखे भवतः, अनुभवोत्तरकालं च स्वप्नेन्द्रजालप्राप्त-साक्षात्प्राप्तयोर्विषययोः सुख-दुःखानुभवाभावात् मुधात्वमिति; एवमनन्तरोक्तं विभाव्य- विशेषेण चेतसा पर्यालोच्य, आत्मलयेममात्मा कथं सुखी भवति ? इतिध्याने, अवधेहि- समाधानवान् भवेत्यर्थः । । १.२३ । । रत्न. - अथ 'राग-द्वेषषयोर्मुधात्वं दर्शयन्नाह
1
श्रीअध्यात्मकल्पद्रु
-
-
'स्वप्नेद्रजालादिषु' इति, व्याख्या-- यवदिति यथा स्वप्ने इन्द्रजालादिषु च, आप्तैः-प्राप्तैरशुभ-शुभैः पदार्थैः करणभूतैर्यो रोषो -द्वेषस्तोषश्च-रागो मुधावृथा, क्षणदृष्टनष्टत्वात् कार्यकरणा-समर्थत्वाच्च । रोषस्तोषश्च कृतस्तदा किमिति ?; तथाऽस्मिन् भवे समस्तैर्विषयैः - शब्द-रूप- गन्ध-रस-स्पर्शलक्षणैः स्वप्नेन्द्रजालादिवत् क्षणदृष्ट-नष्टैरेवमिति रोष - तोषौ मुधा विभाव्य - विचिन्त्य हे आत्मन् ! आत्मलयेआत्मनि लयः-साम्यं राग-द्वेषाभ्यां रहितत्वम् तत्रावर्धहि - सावधानो भवेत्यर्थः । ।१.२३ ।।
१. राग-द्वेषयोः - २.०हि अवधानं कुरु सा० इति मु० ।