SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ समताद्वारम 38 [६४] स्निह्यन्ति तावद्धि निजा निजेषु, पश्यन्ति यावन्निजमर्थमेभ्यः | इमां भवेऽत्रापि समीक्ष्य रीति, स्वार्थे न कः प्रेत्यहिते यतेत ? ||१.२२।। धनवि.-अथ समताप्रतिबन्धकं स्नेहं निरस्यन्नुपदिशति - 'स्निह्यन्ति' इति - हि यतो निजा:-स्वकीया, निजेषु-स्वकीयेषु तावत् कालं स्निह्यन्ति-स्नेहपरा भवन्ति, यावत् कालम्, एभ्यो-निजेभ्यो निजं-स्वकीयम् अर्थ-साध्यं पश्यन्ति, एतदर्थसंवादो वेदेऽपि - "न दार-पुत्राणां कामाय पुत्राः प्रिया भवन्ति, आत्मनस्तु कामाय पुत्राः प्रिया भवन्ति [ ] इति; ततः कारणाद् अत्रापि-इह संसारेऽपि इमां दृश्यमानां रीति-लोकव्यवस्थां समीक्ष्य-दृष्ट्वा प्रेत्यहिते-परभवपथ्ये स्वार्थे-आत्मकार्ये तपः-संयम-साम्यादौ कः पुमान् न यतेत-न प्रयत्नं कुर्याद् ?, अपि तु सर्वोऽपि कुर्यादित्यर्थः ।।१.२२।। रत्न.-अथ सर्वेषां स्वार्थनिष्ठत्वं ज्ञापयति - स्निह्यन्ति तावद्...इति, व्याख्या-हि निश्चितं निजाः-स्वकीया, निजेषुस्वकीयेषु कलत्रादिषु तावत्-तावत्कालं स्निह्यन्ति-स्नेहं कुर्वन्ति, यावदितियावत्कालं निजं-स्वकीयमर्थ-कृत्यमेभ्यः-स्वेभ्यः कलत्रादिभ्यः पश्यन्ति, अत्रापि भवे इमां रीति-मर्यादां समीक्ष्य-विचार्य विलोक्य वा प्रेत्य-परभवे हिते-हितकारिणि स्वार्थे-तपः-क्रियानुष्ठानादिरूपे को न यतेत ? - न यत्नं कुर्याद्, अपि तु दक्षो जनः सर्वोऽपि यतेतेति ||१.२२।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy