________________
३८
श्रीअध्यात्मकल्पद्रुमे मिथ्यात्वमलिनीकृतधर्मज्ञेष्वपि केषुचिदेव मनुष्येषु 'देशविरति-सर्वविरत्यादिप्रतिपत्तिं करोमि इति ज्ञानस्य विद्यमानत्वात्, पुनर्जनधर्मज्ञेष्वपि निन्हवत्वादिवर्जिताः केचिन्मनुष्या गुरु-देवशुद्धं जैन धर्मं जानन्ति, अत्र देवाश्च राग-द्वेषविजेतारः, गुरवश्च पञ्चेन्द्रियसंवरण-नवविधब्रह्मचर्य-गुप्त्यादिषट्त्रिंशद्गुणविराजमानाः, तैः शुद्धं-निर्दोषं, केषुचिदेव जैनधर्मज्ञमनुष्येषु 'देव-गुरुशुद्धं पञ्चविधमिथ्यात्वापगमे सम्यक्त्वालङ्कृतं जैन धर्मं करोमि'इति ज्ञानस्य जायमानत्वात; पुनस्तेषां मध्ये केऽपि मनुष्याः शिवं-मोक्षं जानन्ति, सम्यक्त्वसहितजैनधर्मज्ञेष्वपि केषुचिदेव संसारनिर्विण्णचित्तेषु प्राणिषु 'मोक्षं प्राप्नोमि'इति ज्ञानस्य जायमानत्वात्, तेष्वपि केऽपि प्राणिनः साम्यं जानन्ति, यत इह मुमुक्षवो भूयांसः सन्ति, तेष्वप्यासन्नसिद्धिकानामेव 'समतां श्रयेऽहम् इति ज्ञानस्य जायमानत्वात्, अत्र चशब्दः समुच्चयार्थः सर्वत्र योज्य इति; भावार्थस्तु समताया ज्ञातारः स्वल्पा एव सन्तीति ।।१.२१।।
रत्न.-अथ साम्यभाजामल्पत्वमाह -
जानन्ति कामान्...इति, व्याख्या-निखिलाः ससंज्ञा-संज्ञावन्तो जीवाः (१) स्त्रीसम्भोगादिलक्षणान् कामान् जानन्ति, जानन्तीति सर्वत्र योज्यं (२) नरा अर्थ-द्रव्यं जानन्ति द्रव्योपार्जने तत्पराः सन्तीत्यतस्तेषां नराणामेवार्थेनोदरम्भरित्वाद्, देवानां नारकाणां चार्थेन प्रयोजनाभावात्, तिरश्चामपि नराणां पारवश्यादर्थेन प्रयोजनाभावात् (३) केऽपि च कर्म जानन्ति, कर्मवादिन एव सन्तीत्यर्थः, अथवा कर्म स्वोदरभरणार्थं प्रवृत्ति-निवृत्तिलक्षणं जानन्ति (४) केऽपि धर्म, सामान्यतो वयं धर्मं कुर्म इति पूत्कुर्वन्तीत्यर्थः (५) केचिज्जैनवेषधारिणो जैनं धर्म-वयं जैना जैनं धर्मं कुर्म इति (६) केचिद्-गुरुदेवाभ्यां शुद्धं जैनं धर्मं जानन्ति, गुरुः सदाचारवान् शुद्धप्ररूपकश्चेति, देवोऽष्टादशदोषरहितोऽर्हन्नेवेति (७) तथा केचिच्छिवं-मोक्षं, मोक्षपदार्थं तु तेषां मध्ये अल्पीयांस एव विदन्तीत्यर्थः (८) केचित् साम्यं-समभावं रागद्वेषानाकुलितत्वं, मोक्षवित्स्वपि साम्यवेत्तारः अल्पीयांस एवेत्यर्थः इति दिक् ||१.२१।।