________________
३७
समताद्वारम्
जानन्ति इति - निखिला:-सर्वे संज्ञिनोऽसंज्ञिनश्च प्राणिनः, कामान्'पदैकदेशे पदसमुदायोपचारात्' [ ] कामगुणान्-शब्दादिविषयान् जानन्ति-विदन्ति, ननु सर्वप्राणिनां शब्दादिग्रहणं कथमिति चेत् ?, न, एकेन्द्रियादिष्वनुत्तरवैमानिकदेव-पर्यवसानेषु संझ्यसंज्ञिजीवेषु शब्दादिज्ञानयोग्यताया विद्यमानत्वात्, तत्रैकेन्द्रियेषु शब्दादि-विषयग्रहश्च स्वसिद्धान्तोक्तः, यथा -
[६२] "पञ्चिदिओ उ बउलो नरो व्व सव्वविसयउवलंभा। तह वि न भण्णइ पञ्चिदिउ त्ति बज्झिन्दियाभावा ।। इति श्रीजीवाभिगमवृत्तौ।।
विशेषावश्यक भाष्य-३००१] एवं लौकिकशास्त्रोक्तोऽपि यथा - [६३] पादाहतः प्रमदया विकसत्यशोकः,
शोकं जहाति बकुलो मधुसीधुसिक्तः । आलिङ्गितः कुरबकः कुरुते विकास
मालोकितस्तिलक उत्कलिको विभाति ।। [ ]|| एवमन्यत्र क्वचिदागमगम्यः क्वचित् प्रत्यक्षसिद्धश्च शब्दादिविषयग्रहसद्भाव इति, च पुनः संश्यसंज्ञिषु प्राणिषु ससंज्ञा-संज्ञिनः प्राणिनः, अर्थ-द्वितीयपुरुषार्थं धनं जानन्ति, अत्र प्राय इति गम्यं, एकेन्द्रियादिष्वप्यसंज्ञिष्वप्यव्यक्तलोभसंज्ञायाः सिद्धान्ते भणनात्, लोकेऽपि सप्ररोह-बिल्व-पलाश-प्रपुन्नाटादिषु सद्रव्यताव्यवहारदर्शनाच्च न विरोधः, सर्वेषु संज्ञिषु तु मूषक-भुजगादिषु प्रायो धनस्थानज्ञानस्य लोके शास्त्रे च श्रूयमाणत्वात्; च पुनः संशिष्वपि केऽपि नराः कर्म-कृषिवाणिज्यादिव्यापार जानन्ति, कृषि-वाणिज्यादिव्यापारज्ञानयोग्यताया मनुष्येष्वेव विद्यमानत्वात्, च पुनर्मनुष्येष्वपि केपि प्राणिनो धर्म-दानादिकं जानन्ति; दानाद्यन्तरायापाये केषुचिन्मनुष्येषु 'दानादिधर्मं करोमि इति ज्ञानस्य विद्यमानत्वात्, पुनधर्मज्ञमनुष्येष्वपि जैन धर्म-देशविरति-सर्वविरत्यादिरूपं केचिन्मनुष्या जानन्ति,
१. दिय व्व ब० - को. ।