________________
३६
श्रीअध्यात्मकल्पद्रुमे
"
धनविनन्वनन्तरं समतोक्ता, सा सुखदायकेषु स्नेहस्थानकेषु माता - पितृपुत्र - कलत्रेषु कथं भवति ? इत्याशङ्कायामुपदिशति - 'यथा - विदाम्' इति - यथा-येन प्रकारेण, विदन्ति - जानन्तीति क्विप्प्रत्यये विदः तेषां विदां पण्डितानां लेप्यमयाः- चित्रकृता निर्मिता माता - पितृ - पुत्र - दारा - जननी - जनक - तनय - कलत्राणि तत्त्वतः-परमार्थतः सुखाय न भवन्ति, अत्र च मातरश्च पितरश्च पुत्राश्च दाराश्च 'आ द्वन्द्वे' [सि.हे. ३-२-३९] इत्यनेन माता - पितृ इति साधु, तथा तेन प्रकारेणेह-संसारे परेऽपि - प्रत्यक्षेण दृश्यमाना अपि माता - पितृ - पुत्र - दारास्तत्त्वतः सुखाय न भवन्तीति, अत्र कियत्कालीनसुखस्येन्द्रजालिककृत-नयनसुखस्येवापरमार्थिकत्वात् तत्त्वतोऽपरमार्थिकत्वम्; अत्र कियत्कालीनतामेव दर्शयति-हियतः विशीर्णतत्तदाकारं विनष्टमाता- पितृ-पुत्र - कलत्रा - ऽऽद्याकारम् एतत् समग्रं - लेप्यमयमलेप्यमयं च दृश्यमानं सर्वं समं - सुखकारित्वाभावेन सदृशं भवतीति; भावार्थस्तु लेप्यमयाः प्रत्यक्षेण दृश्यमानाश्च माता - पितृ - पुत्र - दारा अविनष्टाः सन्तो नेत्रादिसुखाय भवन्ति, विनष्टाश्च न भवन्तीत्येषां साम्यमिति । ।१.२० । । रत्न. - पुनरनित्यत्वमेव दृढयति
-
यथा विदाम्..इति, व्याख्या - हे आत्मन् ! यथा विदां-पण्डितानां लेप्यमयालेप्यनिर्मिता माता - पितृ-पुत्र - दाराः, तत्त्वात् परमार्थतः सुखाय न भवन्ति तथा परेऽपि-लेप्यमयेभ्योऽन्येऽपीह - जगति माता - पितृ - पुत्र - दाराः सुखाय न भवन्ति । हि यस्मात् कारणाद् विशीर्णो- विनष्टः स स आकारो यस्य तद् विशीर्णतत्तदाकारारमेतत् समग्रं वस्तु तुल्यमिति ।।१.२० ।।
[६१] जानन्ति कामान् निखिलाः ससंज्ञा,
अर्थं नराः कर्म च केऽपि धर्मम् ।
जैनं च केचिद् गुरुदेवशुद्धं,
केचिच्छिवं केऽपि च केऽपि साम्यम् ।।१.२१ ।।
धनवि . - अत्रैवं सत्यपि संसाररूपे समतां विरला एव जना जानन्ति इति
दर्शयन्नाह