SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ समताद्वारम् ३५ परमाणूनामस्थिरत्वं मृत्तिका-वालुका-धान्यकण-रसा-ऽसृग-मांस-मेदो-ऽस्थि-मज्जाशुक्रादिनानारूपत्वेन जायमानत्वात्; तथाऽपि-एवं सत्यप्येषु-निज-पर-वैरि-सुहृच्छरीरेषु साम्यं-समतां किं न उपैषि-प्राप्नोषीत्यर्थः ? ||१.१९ ।। रत्न:-अथ सर्ववस्तुनामनित्यत्वज्ञापनेन साम्ये प्रेरयन्नाह - 'अनादिः' इति, व्याख्या, आत्मा, न विद्यते आदिरस्य सः अनादिर्वर्त्तते, यद्यात्मन आदिर्भवति तदा कश्चित् कर्त्ता विलोक्यते, किञ्चिच्च समवायि कारणं द्रव्यं विलोक्यते, ते द्वे अपि न स्तः तेनात्माऽनादिः, प्रयोगश्च-आत्मा अनादिः, अनिर्मितत्त्वात्, यद्यद् अनिर्मितं तत् तद् अनादिर्यथा व्योमइत्यन्वयव्याप्तिः, यद् अनादि न भवति तद् अनिर्मितं न भवति, यथा घट इति व्यतिरेकव्याप्तिः, इत्यन्वय-व्यतिरेकाभ्यामात्माऽनादिः साधितः, अत्रार्थे बह वक्तव्यं परं ग्रन्थगौरवभयान्न प्रतन्यते । अथ प्रस्तुतम्, तेन कश्चिदात्मा कस्यापि निजः-स्वो नास्ति, वा-अथवा पर:-अन्योऽस्वजनो नास्ति, स्व-परव्यवहारौ सादित्वे भवतः । तथा कश्चित् कस्यापि रिपुः, वा-अथवा सुहृद्-मित्रं नास्ति, रिपुमित्रव्यवहारावपि सादित्वे भवतः, तथा देहाकृतयः-शरीराकाराः स्थिरा न भवन्ति क्षणक्षयित्वात्, तथा अणवः-परमाणवः स्थिरा न भवन्ति, क्षणेन सुरभिदुरभितया परिणमनशीलत्वात, तथापि हे आत्मन् ! एषु देहाकृत्यणुषु साम्यंसमत्वं राग-द्वेषराहित्यलक्षणं किं न त्वमुपैषि-प्राप्नोषि ?, अपि तु साम्यं भजेत्यर्थः, तथा देहाः-शरीराण्याकृतयो येषां ते देहाकृत्यणवः, देहत्वेन परिणताः परमाणव इत्यर्थः, इति विशेषण-विशेष्यतयाऽपि व्याख्येयम् ।।१.१९।। [६०] यथा विदां लेप्यमया न तत्त्वात्, सुखाय माता-पितृ-पुत्र-दाराः | तथा परेऽपीह विशीर्णतत्-तदाकारमेतद्धि समं समग्रम् ||१.२०।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy