________________
३४
श्रीअध्यात्मकल्पद्रुमे तुरिति विशेषे, ते रागादयस्तवारयः सन्ति । कुतः ? - चतसृणां मनुष्य-तिर्यग्देव-नरकगतीनां यत् क्लेशविधानं, तस्मात, तत्-तस्मात् कारणात, अरिनिर्मितं स्व-परादिविभागं किं प्रमाणयन्नसि ? - प्रमाणीकुर्वन्नसि, अपि तु मा प्रमाणयेत्यर्थः ||१.१८ ।।
[५८] अनादिरात्मा न निजः परो वा,
कस्यापि कश्चिन्न रिपुः सुहृद् वा । स्थिरा न देहाकृतयोऽणवश्च,
तथापि साम्यं किमुपैषि नैषु ? ||१.१९ ।। धनवि.-नन्वनन्तरं समतोपयोगी निज-परविभागाभावः कर्तव्य उपदिष्टः, स कथं भवति ? इत्याकाङ्क्षायां तमेव (निजपरत्वाभावं) दर्शयन्नुपदिशति
'अनादिः' इति आत्मा-जीवः, अनादिः-आदिरहितो वर्त्तते नित्यत्वेन सदा वर्तमानत्वात, च पुनः कस्यापि-आत्मनः कश्चिद-आत्मा, न-नैव, सर्वथा निजः स्वकीयः परश्च-अस्वकीयो भवति, अत्र निजत्व-परत्वाभावोऽनन्तशो भिन्नभिन्नजातीयरूपेण [स्वकीया] स्वकीयत्वेन मातापित्रादिरूपेण शत्रुत्वेन च जातत्वात्; च पुनः कस्याप्यात्मनः कश्चिदात्मा सर्वथा न रिपुः-वैरी सुहृद् वामित्रं भवति, अत्र सर्वथा शत्रुत्वाभावो मित्रत्वा-भावश्चानन्तशः शत्रुत्वेन मित्रत्वेन च सर्वेषां जीवानां सर्वेषु जीवेषु जातपूर्वत्वात्, यदुक्तम्-उत्तराध्ययने वैिराग्यशतकेऽपि] [५९] "न सा जाई न सा जोणी, न तं ठाणं न तं कुलं ।
__ न जाया न मुया जत्थ, सब्वे जीवा अणंतसो" || [ ] || तथा भगवत्यादिष्वपि द्वादशे शतके सप्तमोद्देशके -
"अयं नं भंते ! जीवे सव्वजीवाणं माइत्ताए भाइत्ताए भगिणित्ताए भज्जत्ताए पुत्तत्ताए धूयत्ताए सुण्हत्ताए उववण्णपुव्वे ?, हंता गोयमा ! जाव अणंतखुत्तो' इत्यादि, एवं "मित्तत्ताए अरियत्ताए दासत्ताए" इत्याद्यपि; च पुनः कस्यापि देहिनो देहाकृतयः शरीराकारा अणवः-परमाणवो न स्थिराः, तत्र देहाकाराणां