________________
समताद्वारम
विचार्य-पौर्वापर्येणालोच्य परिणामरम्यम् आयतिसुन्दरं चिरस्थिति च-चिरकालावस्थायि गृह्णाति-स्वीकरोति, तत्-तस्माद् हे आत्मन् ! भवान्तरे-परभवे, अनन्तसुखाप्तये य आचारो भवति तम्, इममाचारं पञ्चविधाचाररूपमप्रमत्ततया समाचरणेनार्थाद् भगवता प्रकाशितं, (किं)कथं-केन कारणेन जहासि ?, त्यजसीत्यर्थः ।।१.१७ ।।
रत्न.-अथ वेत्तृत्वफलमाह -
'कृती हि' इति, व्याख्या। हि-निश्चितं कृती-विद्वान्, इह लोके यत् परिणामेन-परिपाकेन रम्यं मनोरमं तथा चिरं स्थितिर्यस्य तत् चिरस्थिति, एवंविधं सर्वं वस्तु विचार्य गृह्णाति, तद् भवान्तरे-अन्यस्मिन् भवेऽनन्तसुखाप्तयेअगणितसुखप्राप्तये इत्यर्थः भवति, तत्-तस्माद्धेतोः हे आत्मन ! इममाचारं किं जहासि ?, अपि तु मा जहाहि, मा त्यजेत्युपदेशः ।।१.१७।।
[५७] निजः परो वेति कृतो विभागो,
रागादिभिस्ते त्वरयस्तवात्मन् ! | चतुर्गतिक्लेशविधानतस्तत्,
प्रमाणयन्नस्यरिनिर्मितं किम् ? ||१.१८।। धनवि.-अथ समताविध्वंसकानां राग-द्वेषादीनां वैरित्वमुपदिशति -
'निजः' इति हे आत्मन्, 'अयं जनो निजः-स्वकीयः, अयं पर:-परकीय' इत्ययं विभागो-भेदव्यवहारो रागादिभिः-राग-द्वेष-काम-क्रोध-मद-मत्सरैः कृतोनिष्पादितोऽस्ति, ते तु-रागादयश्चतुर्गतिक्लेशविधानतः, तवारयो-वैरिणः सन्ति; तत्-तस्माद् अरिनिर्मितं-वैरिविलसितं स्व-परविभागं किं प्रमाणयन्नसि ?, किं सत्यतया मन्यसे ? इत्यर्थः ||१.१८ ।।
रत्न.-अथ स्व-परविभागे हेतुमाह - 'निजः परो वा' इति, व्याख्या-हे आत्मन ! अयं निजः-कलत्रादिजनो वा पुनरयं परो-द्विषदादिरिति विभागो-भेदो रागादिभिः षडन्तरारिवग्गैः कृतोऽस्ति,