SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीअध्यात्मकल्पद्रु आयतिसुखदायि, अहितं च-आयतिदुःखदायि, ते न वेत्सि, पुनः स्वं स्वकीयं, परं च-परकीयं न वेत्सि, एवं सत्यपि च त्वं दुःखं प्रतिकूलवेदनीयं द्विषन्द्वेषविषयीकुर्वन्, शर्म-सुखं वाञ्छसि एतन्निदानमूढः - एतयोः सुख-दुःखयोर्निदानंकारणं हेयोपादेयवस्तुपरिज्ञानं तत्र मूढः - अज्ञानोपहतः कथं केन प्रकारेण, इष्टमाप्स्यसि-लप्स्यसे इति ?, यत इष्टोपायज्ञो हीष्टं साधयति, न ह्युपायाज्ञाने उपेयसिद्धिः, - इति ।।१.१६ ।। रत्न.–अथाऽयथार्थज्ञानेनाऽवेत्तारमाह ३२ , - , " 'न वेत्सि शत्रून्' इति, व्याख्या - हे जन्ता ! त्वं राग-द्वेष- क्रोध- मान-मायालोभादीन् शत्रून् न वेत्सि - न जानासि न वेत्सीति सर्वत्र योज्यं च पुनरुपशमविवेक-संवरादीन् सुहृदो - मित्राणि नैव, तथा हितं च अहितं च हिताऽ-हिते, डमरुक-मणिन्यायेन नैवेत्यत्रापि योज्यं, तथा ज्ञान - दर्शन - चारित्रादि प्रति स्वम्आत्मीयं न, च पुनः प्राणातिपाताद्यष्टादश पापस्थानानि परम् - आत्मनोऽन्यत् नेति । तथा चारित्रादिजनितं दुःखं प्रति द्विषन् -द्वेषं कुर्वन्नसि च पुनरैहिकं पारत्रिकं च-स्वर्गादिजनितं शर्म-सुखं वाञ्छसि, परमेतस्य शर्मणो निदानं कारणं देशविरति-सर्वविरत्यादि कष्टं तत्र मूढः - अज्ञानवान् सन् त्वमिष्टं वाञ्छितं शर्म कथमाप्स्यसि ?, काकूक्त्याऽऽत्मानं प्रति प्रश्नः अपि तु न प्राप्स्यतीति सूचाऽपि ।।१.१६।। " 1 धनवि . - [५६] कृती हि सर्वं परिणामरम्यं, विचार्य गृह्णाति चिरस्थितीह । भवान्तरेऽनन्तसुखाप्तये त दात्मन् ! किमाचारमिमं जहासि ? ।।१.१७ ।। - ननु पूर्वपद्योक्ता निदानमूढता कथं भवति ? इत्याकाङ्क्षायां तामेव दर्शयन्नुपदिशति - 'कृती हि' इति हि यत इह संसारे कृती- पण्डितः सर्वं स्वीकार्यं वस्तु
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy