SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ समताद्वारम् 'गुणस्तवैः' इति- यः पुमान् परेषाम्-आत्मव्यतिरिक्तानां गुणिनां-गुणवतां जनानां गुणस्तवैः-दान-ज्ञानादिगुणस्तुतिभिः च पुनर-आत्मनः-स्वस्य आक्रोशनिन्दादिभिः-गालिप्रदान-दोषोद्भावनप्रमुखैर्मना-चित्तं सम-रागद्वेषरहितं शीलतिकरोति, वा-अथवा परेषां गुणिनां गुणस्तवैरात्मनश्चाक्रोश-निन्दादिभिर्मोदते-हृष्यति, च पुनः, परेषां गुणिनामाक्रोशनिन्दादिभिः स्वस्य च गुणस्तवैरिति व्यत्ययतोविपर्यासतः खिद्येत-खेदं प्राप्नुयात् स पुमान् वेत्ता-ज्ञाता भवतीति ।।१.१५।। रत्न:-अथात्मनः शान्तरसकारणं वेत्तृत्वं, तेन तदाह - 'गुणस्तवैः' इति, व्याख्या-स आत्मा वेत्ता-विदुरो भवति । सः कः ? - यः परकृतैः परेषां गुणिनां गुणस्तवैः-गुणस्तुतिभिः, च पुनरात्मनः-स्वस्य परकृतैराक्रोश-निन्दादिभिः कारणैः यः प्रतिसमयं तुल्यं शीलति-रक्षति, अमर्षणो न भवतीत्यर्थः । वा-अथवा मोदते एते गुणिनस्तत एतेषां गुणस्तवा न्याय्याः, अहं चागुण्यस्मि तेनाक्रोश-निन्दादिकरणमेव युक्तम् इति चित्तालादवान् भवतीत्यर्थः । तथा च पुनरर्थे आत्मनो गुणस्तवैः परेषां गुणिनामाक्रोश-निन्दादिभिरिति व्यत्ययतो-विपर्यासतः खिद्यते-खेदं गच्छेद्-'अहो मूढोऽसौ स्वार्थनिष्ठः परेषां गुणिनामाक्रोश-निन्दादीनि ममागुणिनो गुण-स्तुतीविधाय मां सन्तुष्टं करोति इति, अत एव यथार्थविद् वेत्तेत्यर्थः ।।१.१५ ।। [५५] न वेत्सि शत्रून् सुहृदश्च नैव, हिताहिते स्वं न परं च जन्तो ! । दुःखं द्विषन् वाञ्छसि शर्म चैतन् निदानमूढः कथमाप्स्यसीष्टम् ? ||१.१६ ।। धनवि.-ननु परेषु साक्षादहितं समाचरत्सु कथं समता अनन्तरोक्ता समाचरणीया ? - इत्याशङ्काकुलान् शिष्यान् प्रति गुरुराह - 'न वेत्सि' इति- हे जन्तो ! हे प्राणिन् ! त्वं शत्रून्-वैरिणो न वेत्सिन जानाति, च पुनः सुहृदो-मित्राणि नैव वेत्सि, पुनस्त्वं 'हिताहिते' हितं च
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy