SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीअध्यात्मकल्पद्रुमे · तादृग्महर्द्धिकप्रतिबोधैः, सर्वशास्त्रपारीणता, विकृष्टतपःकरणता तादृक्जिनप्रवचनोपदेशादिकं श्राद्धापेक्षया पतत्प्रासादोद्धरणं, बिम्बप्रतिष्ठा नवीनप्रासादनिर्माणं सङ्घपतितिलकधरण-जिनशासनोन्नतिकरणप्रभृतिकं ← वा अद्भुतम्आश्चर्यकारि किमकृथा-अकार्षीः ? यद्यस्मात् त्वं मदवान्-जात्यादिना सर्वोत्कृष्टोऽहं मत्तोऽन्ये ऽपकृष्टा इत्यहङ्कारवान् वर्त्तसे; पुनस्ते - तव कैस्तपश्चरणादिभिर्देशविरति-प्रतिष्ठा-तीर्थयात्रा - दानादिभिः सुकृतैर्नरकभीः-नरकगतिभीतिर्गता; पुनस्त्वया किमिति प्रश्ने पितृपतिः - यमो जित: - पराजयं प्रापितो यद्-यस्मात् त्वम्, अचिन्तः-पुण्यं विना परभवे किं करिष्यामीति चिन्तारहितोऽसीति ।।१.१४।। ३० रत्न.–अथात्मनः स्तुतीच्छा - मदादिनिवारणमाह के गुणाः इति, व्याख्या हे आत्मन् ! तव के गुणाः - औदार्य-धैर्य-गाम्भीर्यदान-शील-तप-उपशमादयः सन्ति ?, यतः कारणात् त्वं स्तुतिमिच्छसि - वाञ्छसि, तथा त्वमद्भुतं कार्यं यतिजनापेक्षया राजप्रतिबोध-तादृग्महर्द्धिकप्रतिबोधसर्वशास्त्रपारीणता-विकृष्टतपःकरण- तादृग्जिन-प्रवचनोन्नति-करणोपदेशादिकम् श्राद्धापेक्षया पतत्प्रासादोद्धरण - बिम्बप्रतिष्ठा - नवीन - प्रासादनिर्माण-संघपतितिलकधरणजिनशासनोन्नतिकरणप्रभृतिकं किमकृथाः - अकरो: ?, यत् त्वं मदवानसि तथा तेतव कैः सुकृतैः-महत् तपःकरण - लोचनाग्रहण- दान - मुख्यैः कारणभूतैर्नरकस्य भीः- भयं तथा त्वं न विद्यते चिन्ता मरणादिका यस्य सः अचिन्तोऽसि तत् किं पितृपतिः - यमो जितः इति काकूक्त्याऽऽत्मानं प्रति प्रश्नः । ।१.१४।। " गता, - [ ५४ ] गुणस्तवैर्यो गुणिनां परेषा - माक्रोशनिन्दादिभिरात्मनश्च । मनः समं शीलति मोदते वा, खिद्येत च व्यत्ययतः स वेत्ता ।।१.१५ ।। धनवि.–नन्वनन्तरोपदिष्टेन स्वस्तुत्यभिलाषाभावेन साम्ये कृते को गुणः ? इत्याशङ्कायां वेत्तृत्वलक्षणगुणमाह 1
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy