________________
समताद्वारम्
अचेतनाश्च-काञ्चन-कण्टकादयः तद्, गतेषु-तदन्तर्वर्तिषु अखिलेषुसर्वेष्विष्टानिष्टेषु स्पर्श-रूप-रव-गन्ध-रसेषु-स्पर्शाश्च कोमलत्व-कर्कशत्वादयो, रूपाणि च गौरत्व-श्यामत्वादीनि, रवाश्च सुस्वरत्व-दुःस्वरत्वादयो, गन्धाश्च सुरभित्वदुरभित्वादयो, रसाश्च मधुरत्व-कटुकत्वादयः, तेषु हे आत्मन् ! तव चित्तं साम्यं-रागद्वेषराहित्यस्वरूपं यदा एष्यति-यास्यति तदा हि-निश्चितं शिवसुखमोक्षसुखं पाणिगं-हस्तप्राप्तं भवतीति ।।१.१३।।
रत्न.-पुनः साम्याश्रयणे सुप्रापशाश्चतसुखेनात्मानं लोभयन्नाह -
'चेतनेतरगतेषु' इति, व्याख्या हे आत्मन् ! स्पर्श-रूप-रव-गन्ध-रसेषु इन्द्रियार्थेषु यदा तव चेतः-चित्तं साम्यं प्रत्येष्यति, प्राप्स्यतीत्यर्थः, किंलक्षणेष ? चेतना ललनामुख-कोकिल-वनीखण्ड-कस्तूरीमृग-नाभिमद-पशुमांसादयः, तेषु गताः, इतरे-अचेतनास्त्वर्कतूल-तादृग[?]मयूर-पिच्छचन्द्रक-घुसृण-कर्पूर-वीणा-वेणुशर्करा-मध्वादयः, तेषु गताः स्पर्श-रूप-रव-गन्ध-रसाः तेषु, किंलक्षणेषु-अखिलेषु, तदा शिवस्य मोक्षस्य सुखं पाणिगं-हस्तगतं वर्तत इति ।।१.१३।।
[५३] के गुणास्तव ? यतः स्तुतिमिच्छ
-स्यद्भुतं किमकृथा ? मदवान् यत् । कैर्गता नरकभीः सुकृतैस्ते ?,
किं जितः पितृपतिर्यदचिन्तः ? ||१.१४ ।। धनवि.-ननु समताऽऽत्मशिक्षापूर्विका भवति-इति कथमात्मा शिक्षणीयः ? - इत्याकाङ्क्षायामाह - ___'के गुणा' इति - जम्बूस्वाम्यादीनामिव तव तपः-शीलादयः के गुणाः सन्ति ? यतो-येभ्यो गुणेभ्यः, तव स्तुति-गीतगानादिना श्लाघामिच्छसि, पुनस्त्वं विष्णुकुमार-वज्रस्वाम्यादिवत सङ्घसाहाय्यकरणादिकं, स्थूलभद्रादिवत कोशागृहस्थितावप्यखण्डशीलपालनादिकं → वा यतिजनापेक्षया राजप्रतिबोधता, १. अथ - मु० । २. → ८ चिह्नान्तर्गतः पाठः हस्तप्रतेः गृहीतः ।