SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २८ [५० ] दीनेष्वार्त्तेषु भीतेषु, याचमानेषु जीवितम् । प्रतीकारपरा बुद्धिः, कारुण्यमभिधीयते ।।१.११।। [५१] क्रूरकर्मसु निःशङ्कं, देवता- गुरुनिन्दिषु । आत्मशंसिषु योपेक्षा, तन्माध्यस्थ्यमुदीरितम् ।।१.१२ । । इति श्रीयोगशास्त्रे | , धनवि . – पुनर्ग्रन्थान्तरसंमतिं दर्शयन्नाह 'तथा च' इति मा कार्षीदित्यादिश्लोक-चतुष्टयं योगशास्त्र ४४४ - ४४७ गतं तेन तद्व्याख्यानमपि योगशास्त्रवृत्तितोऽवसेयं, ग्रन्थविस्तर-भयान्नेह प्रतन्यते । नन्वेतच्छ्लोकचतुष्टयं कुत्रोक्तमित्याकाङ्क्षायामाह इति श्रीयोगशास्त्र इति स्पष्टम् । रत्न. - तथा चोक्तं - तुर्यषोडशके । तथा च योगशास्त्रेऽपि "परिहितचिन्ता मैत्री" ति सुगमत्वान्न व्याख्यायते । " मा कार्षीत् इत्यादिश्लोकचतुष्टयं योगशास्त्रवृत्तौ व्याख्यातत्वाद् विस्तरभयाच्च नात्र प्रतन्यत इति ।। १.१२ ।। [५२] चेतनेतरगतेष्वखिलेषु, स्पर्श-रूप-रव-गन्ध-रसेषु । - साम्यमेष्यति तदा तव चेतः, श्रीअध्यात्मकल्पद्रु पाणिगं शिवसुखं हि तदाऽऽत्मन् ! ।।१.१३।। इत्याकाङ्क्षायामाह धनवि.―ननु समतायाः किं फलम् ? - चेतनेति, चेतनाश्च-चेतनावन्तः स्त्री - सर्पादयः, ललना-ललनामुखकोकिलरव-कस्तूरी-पशुमांसादयश्चेतनाः, अर्कतूल - मयूरपिच्छ- कर्पूर- वीणा-शर्करादयः १. → ← चिह्नान्तर्गतः पाठः हस्तप्रतितः पूरितः ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy