________________
समताद्वारम्
२७
तस्मिन् यन्माध्यस्थ्यं राग-द्वेषयोरचिन्तनं सा उपेक्षा भवेत् । अत्रापि धर्मग्रहणे धर्मिग्रहणाद् दोषवति पुरुषे इति ज्ञेयम् । क्वचिदादर्शे 'गुणी' इति पाठो दृश्यते, तदा तु न्यायस्य प्रयोजनं नास्ति । तथा अवार्या दोषा यस्य स तस्मिन् पुंसि, इति व्याख्यायामत्रापि न्यायस्य प्रयोजनं नास्तीति ।।१.७।।
[ ४८ ] परहितचिन्ता मैत्री,
परदुःख-विनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता,
परदोषोपेक्षणमुपेक्षा ।।१.८ ।। [इतितुर्यषोडशके ]
धनवि.—अनन्तरोक्तेऽर्थे पूर्वाचार्यश्रीहरिभद्रसूरिसम्मतिं दर्शयति तथा चोक्तमिति स्पष्टं तदेव दर्शयति
,
-
'परहित' इति - 'परहितचिन्ता' परेषाम् - आत्मव्यतिरिक्तानां हितचिन्तनं मैत्रीत्युच्यते, तथा-पुनरर्थे, परदुःखविनाशिनी परेषां दुःखप्रध्वंसिनी चिन्ता - वाञ्छा वा करुणेति, परसुखतुष्टिः-परेषां सुखे सति सन्तोषः मुदितेति, परदोषोपेक्षणं-परदोषे दृष्टे सत्युपेक्षणमुपेक्षेति, अत्र विशेषव्याख्यानं श्रीहरिभद्रसूरिविरचिततुर्य-षोडशकवृत्तितोऽवसेयम् ।।१.८।। इदं कुत्रोक्तम् ? इत्याकाङ्क्षायामाह - तुर्यषोडशके ।। इति ।।
[४९] मा कार्षीत् कोऽपि पापानि,
मा च भूत् कोऽपि दुःखितः । मुच्यतां जगदप्येषा, मतिमैत्री निगद्यते ।।१.९ ।।
[५० ] अपास्ताशेषदोषाणां वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः,
,
स प्रमोदः प्रकीर्त्तितः । ।१.१० ।।