SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीअध्यात्मकल्पद्रुमे [४७] मैत्री परस्मिन् हितधीः समग्रे, भवेत् प्रमोदो गुणिपक्षपातः | कृपा भवार्ते प्रतिकर्तुमीहो पेक्षा च माध्यस्थ्यमवार्यदोषे ||१.७।। धनवि.-नन्वनन्तरमुक्तानि समताऽङ्गानि मैत्री-प्रमोद-कारुण्य-माध्यस्थ्यानि किंस्वरूपाणि भवन्ति ? - इत्याकाङ्क्षायामाह - मैत्र्यादिस्वरूपं चैवं-एवं प्रकारेण ज्ञेयमित्यर्थः । मैत्री इति, समग्रे-सकले परस्मिन्-अन्यस्मिन् हितधी-हितबुद्धिः मैत्री समताङ्गम् भवेत्, (१) तथा गुणिपक्षपातो-गुणवज्जनप्रशंसने क्रियमाणे हर्षप्रकर्षः प्रमोद इति समताङ्गम् भवेत्, (२) तथा भवार्ते-सांसारिक-दुःखपीडिते जने प्रतिकर्तुम्-प्रतीकारं कर्तुम्, ईहा-वाञ्छा कृपा-कारुण्यं यथा → २'असौ पापं कृत्वा मा संसारगहने पततु' इति धर्मोपदेशेन पापान्निवर्त्तयामि इति कृपेत्यर्थः, यथा वीरस्वामिनः शूलपाणियक्षं प्रति, कौशिकं सर्प प्रति च - समताङ्गम् भवेत्, (३) तथा-अवार्यदोषेअनिवारणीयापगुणे क्रूरकर्मणि जने उपेक्षा-औदासीन्यं माध्यस्थ्यं समताङ्गम् भवेत् (४) ।।१.७।। रत्न.-'मैत्र्यादिस्वरूपं चेदं - 'मैत्री परस्मिन्' इति, व्याख्या समग्रे-समस्ते परस्मिन्-आत्मव्यतिरिक्ते जने या हिता चासौ धीश्च सा हितधीः-हितबुद्धिः सा मैत्री भवेत् । तथा यो गुणानां-धर्मग्रहणे धर्मिग्रहणम्' इति न्यायाद्, 'गुणिनां पक्षे सहाये पार्श्वे वा पतनं गुणपक्षपातः स प्रमोदो भवेत् । तथा या भवस्यार्तेः-संसारस्य चिन्तायाः प्रतिकर्तुमीहा वाञ्छा सा कृपा भवेत्, 'असौ पापं कृत्वा मा संसारगहने पततु'इत्येनं धर्मोपदेशेन पापान्निवर्त्तयामीति वाञ्छा कृपेत्यर्थः, यथा वीरस्वामिनः शूलपाणियक्षं प्रति कौशिकं च सर्प प्रति । च पुनर्, अवार्यश्चासौ दोषश्चावार्यदोषः, १. गुणप० मूले । टीकायामपि को. २. ।। → (चिह्नान्तर्गतः पाठः को० प्रतितः पूरितः । ३. अथ मैत्रीस्वरूपमाह - मु० । ४. गुणिनां पक्षपातः - मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy