________________
समताद्वारम्
योज्यम् । न च कोऽपि शत्रुः | कश्चन निजः स्वः परो वा-अप्यन्यः । तथा यस्य चेतः कषायैः-क्रोध-मान-माया-लोभैर्मुक्तं सद्, इन्द्रियार्थेषुशब्द-रूप-गन्धरसस्पर्शेषु न रमेत-नासक्तं भवेत्, स पुमान् परम-उत्कृष्टो योगी अष्टाङ्गयोगवान् भवेत् ।।१.५।।
[४६] भजस्व मैत्री जगदङ्गिराशिषु,
प्रमोदमात्मन् ! गुणिषु त्वशेषतः | भवार्तिदीनेषु कृपारसं सदा
ऽप्युदासवृत्तिं खलु निर्गुणेष्वपि ||१.६ ।। धनवि.-ननु समता केन समाचरणेन समायाति ?, कानि वा समताऽङ्गानि? - इति दर्शयन्नाह -
'भजस्व' इति- हे आत्मन् ! त्वं जगदगिराशिषु-सर्वजगज्जन्तुसमूहेषु मैत्रीम्परहितचिन्तनरूपां भजस्व-प्रतिपद्यस्व, तु पुनः अशेषतः सर्वेषु गुणिषु-गुणवत्सु जनेषु प्रमोदम्-संतोषं भजस्व, तथाऽशेषु भवार्तिदीनेषु-संसारपीडापीडितेषु जनेषु कृपारसम्कारुण्यं सदाऽपि-सर्वकालमपि भजस्व, तथा निर्गुणेष्वपि-गुणरहितेष्वपि जनेषु खलु-निश्चितम्, उदासवृत्तिम्-माध्यस्थ्यं भजस्व-इति ।।१.६ ।।
रत्न.-अथ जीवस्य साम्यागमे कारणानि आह -
'भजस्व' इति, व्याख्या- हे आत्मन् ! जगतामङ्गिनस्तेषां राशिषु-समूहेषु वक्ष्यमाणस्वरूपां मैत्री भजस्व | तथा गुणिषु ज्ञान-दर्शन-चारित्रादिगुणवत्सु प्रमोदं-हर्षं भजस्व, गुणिनो जनान् दृष्ट्वा हर्षं प्राप्नुहीत्यर्थः । अथवा अग्रेतनकाव्ये वक्ष्यमाणलक्षणं प्रमोदं भजेस्वेत्यपि । कुतः ? - अशेषतः-समस्तप्रकारेण, मनसा वचसा कायेनेत्यर्थः । अथवा पदार्थेषु,-अशेषेषु, तसिप्रत्यये सप्तम्यन्तं पदं । तथा भवस्य-संसारस्यातिः-पीडा, तया दीनेषु कृपारसं भजस्व, भवार्तेः प्रतिकर्तुमीहालक्षणमित्यर्थः । खलुः-निश्चितं निर्गुणेष्वपि-गुणरहितेष्वपि पुंस्सु सदाऽप्युदासवृत्तिं भजस्वेत्यन्वयलेशः ।।१.६ ।। १. वा अशेषतः - मु० ।