________________
ललनाममत्वमोचनद्वारम्
रत्न. - अथाशुचित्वमेव दृढ्यति
'विलोक्य' इति, व्याख्या - हे आत्मन् ! दूरस्थमल्पमपि अमेध्यं - शकृदाद्यशुचि वस्तु विलोक्य त्वं जुगुप्ससे - जुगुप्सां करोषि, अत्रापिशब्दोऽध्याहार्यः, इत्थमेवार्थदीप्तैः, किंलक्षणः ? मोटिता-वक्रीकृता नासिका येन सः, तत्कारणात् हे विमूढ ! हे मूर्खविशेष ! तैरेवामेध्यैर्भृतेषु योषाणां वपुष्षु-शरीरेष्वभिलाषं-वाञ्छां किं कुरुषे ?, अपि तु मा कुर्वित्युपदेशः । । २.३ ।।
[८४]
-
अमेध्यमांसा -ऽस्त्र-वसात्मकानि, नारीशरीराणि निषेवमाणाः ।
इहाप्यपत्य-द्रविणादिचिन्तातापान् परत्रेग्रति दुर्गतीश्च ।।२.४ ।।
५१
"
1
धनवि . - .-अथ ललनामोहजनितमिह लोके परलोके चानिष्टफलं दर्शयन्नुपदिश्यतेअमेध्य इति – अमेध्यमांसा-ऽस्र-वसात्मकानि नारीशरीराणि - स्त्रीणामङ्गोपाङ्गरूपाणि निषेवमाणा - नितरामत्यासक्त्या सेवमाना-भजमाना जना, इहापिइह भवेऽपि, अपत्य-द्रविणादिचिन्तातापान् स्वर्णमाषद्वययाचककपिलादिवत्, इग्रतिप्राप्नुवन्ति, तत्रा-ऽपत्यानि च - पुत्र-पुत्रीप्रभृतीनि द्रविणानि च धनानि तान्यादौप्रथमं येषां तेऽपत्य-द्रविणादयः, आदिपदाद् वस्त्र - पात्र - भक्ष्यादयः, तेषां चिन्ता - किं भविष्यति, कथं भविष्यति ? इत्यादिपीडा, तस्याः तापान्-परितापान् खेदानित्यर्थः; च पुनर्नारीशरीराणि निषेवमाणा जनाः परत्र-परभवे दुर्गती:तिर्यग्-नरक-गतीः, इग्रति - प्राप्नुवन्ति, अत्र 'ऋ प्रापणे च [गतो] गतौ [है . २६. ] इत्यस्य वर्त्तमाना, अन्तीति स्थिते 'हवः शिति' [सि. हे. ४-१-१२] द्वित्वे, 'पृऋ-भृ-मा-हा-क्ष-ङ्म इः' इति [ सि. हे. ४-१-५८] पूर्वस्येत्त्वे 'पूर्वस्यास्वे स्वरे य्वोः इय्-उव्' [सि.हे. ४-१-३७] इति इयि 'इवर्णादेरस्वे स्वरे' [सि.हे. ४-१२१] इति रत्वे, 'अन्तो नो लुक्' [सि. हे. ४-२-९८ ] इति न लोपे च साधु
।।२.४।।
१. प्राप्तेः - मु० । २. योषा योषित् (अ.चि.५०४) योषिता. शि० ३९ ।