________________
श्रीअध्यात्मकल्पद्रुमे हेतुना तं समतासुखसमुद्रम् आद्रियस्व-आदरपूर्वं भजस्वेति ।।१.२।।
रत्न.-अथ शुभाभावनास्तु साम्येन भवन्तीत्यत आह -
यदिन्द्रियाद्यैः-इति व्याख्या इन्द्रियाणि आद्यानि येषु तानि इन्द्रियाद्यानि, तैः सकलैर्यत् सुखं स्यात्, आदिशब्दात्-इन्द्रियार्थैः शब्द-रूप-गन्ध-रस-स्पर्शेर्वीणा-मुख-चम्पक-सितोपला-चन्दनरसादिभिरिन्द्रियार्थकारणैश्च, केषां ? - नरेन्द्राराजानः, चक्रिणः-सार्वभौमाः, त्रिदशाधिपा इन्द्राः, तेषामिति । इभ्य-त्रिदशादीनां तु पारवश्यात् सुखागणनं, सुखं तु स्वातन्त्र्यजम्, तस्मात् तेषाम-स्वातन्तत्र्यान्न किंचित् सुखमिति, नरेन्द्रेभ्यश्चक्रिणां सुखमधिकम्, चक्रिभ्यस्त्रि-दशाधिपानां सुखमधिकम्, यथा यथा स्वातन्त्र्यमधिकम् तथा तथा सुखमधिकमिति। हि यस्मात् कारणात् तत् सुखं सुधाया अम्बुधिः सुधाम्बुधिः साम्यमेव सुधाम्बुधिः साम्यसुधाम्बुधिः, तस्य पुरः-अग्रे बिन्दवति, एवेति निश्चये, बिन्दुरिवाचरतीति बिन्दवति । "कर्तुः क्विप् गल्भ-क्लीब-होडात् तु ङित्" (सि.हे. ३/४/२५) इतिसूत्रेणाचारार्थे क्विपि बिन्दवतीति सिद्धम् । सर्वेषां नरेन्द्र-चक्रि-त्रिदशाधिपानां स्वातन्त्र्यात् साम्यवतः साधोः स्वातन्त्र्यमधिकम् । यतस्रयाणामपि प्रत्युतापायमरणादिभयवतां धिक् स्वातन्त्र्यम् । एतस्य तदभावतः स्वातन्त्र्यमतिप्रशस्यं, यत उक्तम् - [४२] दो तुंबडाइं हत्थे वयणे धम्मक्खराइं चत्तारि ।
विउलं च भरहवासं को अम्ह पहुत्तणं हरइ ? ||[ ]|| हे शिवार्थिन् ! तेन कारणेन साम्यसुधाम्बुधिमाद्रियस्व-अङ्गीकुरुष्व । क्वचित्-इन्द्रियार्थैरिति पाठः ।।१.२।।
[४३] अदृष्टवैचित्र्यवशाज्जगज्जने,
विचित्रकर्माशयवाग्विसंस्थुले । उदासवृत्तिस्थितचित्तवृत्तयः,
सखं श्रयन्ते यतयः क्षतातयः ||१.३|| १. मु. प्रतौ अवतरणिका नास्ति, तथा मूलत्वेन स्वीकृतोऽयं पाठः । २. 'अत्र-त्रि० मु० ।