________________
समताद्वारम्
धनवि . - अथोपदेष्टुमुद्दिष्टस्य साम्यसुखस्य सांसारिकसर्वसुखापेक्षयाऽतिशापित्वं दर्शयन्नाह-यदिन्द्रियार्थैः इति-हि-यतो नृपति-चक्रवर्त्ति - देवेन्द्राणां समस्तैरिन्द्रियार्थैःअनुकूल-शब्द-रस-रूप-गन्ध - स्पर्शे वीणा स्त्रीमुख - चम्पकक- शितोपला - चन्दनरसादिभिःइन्द्रियार्थकारणैः यत् सुखं भवति तद् अनन्तरोक्तं सुखं समतासुखसमुद्रस्य पुरः- अग्रे एव निश्चयेन विन्दवति - बिन्दुरिवाचरतीति ।
अत्र च सांसारिकसुखस्याल्पकालीनत्वेन विनाशित्वेनेष्टवियोगादिबहुदुःखमिश्रितत्वेन च बिन्दूपमानता, साम्यसुखस्य च बहुकालीनत्वेनाविनाशित्वेन केवलानन्दमयत्वेन च समुद्रोपमानतेति यदुक्तम्
२१
[३७] "जं च कामसुहं लोए, जं च दिव्वं महासुहं वीयरायसुहस्से हि, णंतभागं पि नऽग्घइ ।।[ ]।।" [३८] दो तुंबडाई हत्थे वयणे धम्मक्खराइं चत्तारि । विउलं च भरहवासं को अम्ह पहुत्तणं हरई ? ।।[ ]।। अत्रैवकारस्य त्रिधा व्याख्याने अन्त्यव्याख्यानं ग्राह्यं, न त्वन्यत् किंचित्, उच्यते यथा
[३९] "अयोगं योगमपरैरत्यन्तायोगमेव च ।
व्यवच्छिनत्ति धर्मस्य, निपातो व्यतिरेकतः । । [ ] ।। [४०] विशेषण - विशेष्याभ्यां क्रियया च सहोदितः । विवक्षातोऽप्रयोगेऽपि, तस्यार्थोऽयं प्रतीयते । । [ ] ।।
[४१] व्यवच्छेदकफलं वाक्यं यतश्चैत्रो धनुर्धरः ।
पार्थो धनुर्धरो नीलं, सरोजमिति वा यथा ।।[ ] ।।" इतिवचनाद् ।
·
विशेषणसङ्गत एवकारोऽयोगं व्यवच्छिनत्ति, यथा शङ्खः पाण्डुर एव, विशेष्यसङ्गत एवकारोऽन्ययोगं व्यवच्छिनत्ति, यथा पार्थ एव धनुर्धरः, क्रियासङ्गत एवकारोऽत्यन्तायोगं व्यवच्छिनत्ति, यथा नीलं सरोजं भवत्येवेति, तेनानन्तरोक्तेन
१. 'वीणा....कारणैः' इति अवतरिका को प्रतौ । २. को प्रतौ ।
C-3