________________
श्रीअध्यात्मकल्पद्रुमे ___ इति श्लोकप्रतिपादिताः, ता एव-ओषधयो-दुष्टदृष्टिरक्षादक्षवृक्षमूलिकाविशेषाः, ताः, भावनौषधीरित्यर्थः । अथ भावनौषधीधरणे फलमाह-यद्-यस्मात् कारणात्, त्वां-भवन्तं, छलान्विषो दुर्ध्यानभूता न छलयन्ति-वचनच्छलवेलाच्छलादिना न गृह्णन्तीत्यन्वयः, अत्र कदाऽयं शुभभावनौषधीरहित इति छलं मिषमन्वेषयन्तीति छलान्विषः, तथा दुर्ध्यानानि - आर्त्त-रौद्रध्यानानि तान्येव भूता-दुष्टव्यन्तरविशेषा इत्यक्षरार्थः । भावार्थस्तु चित्तस्य गम्याऽगम्य-कार्याऽकार्य-हेयोपादेय-परिज्ञानविकलत्वेन बालकरूपता, भावनायाश्च स्थैर्य-धैर्याद्यापादकत्वेनौषधीरूपता दुर्ध्यानानां च पारवश्यापादकत्वेन दौर्गत्योत्पादकत्वेनोन्मादादिजनकत्वेन च भूतरूपतेति ||१.१।।
रत्न.-षोडशपदार्थैः उपदेशपदस्य-उपदेशार्हपदार्थ संग्रहः, तत्र पूर्वं साम्योपदेशः यथा-तत्र यशोद्देशं निर्देश इति प्रथमं साम्योपदेशः -
यथा-चित्तबालक मा त्याक्षीः' इति, व्याख्या हे चित्तबालक ! त्वम् अजस्रंनिरन्तरं, भावना:-शुभाध्यवसायाः, ता एवौषधयः, ताः मा त्याक्षी: - मा त्यज। तदत्यागे को गुण इत्याह- यद्-यस्मात् कारणात् त्वां दुर्ध्यानानि एव भूता:दुष्टव्यन्तरजातीया देवा न छलयन्ति । किंलक्षणाः ? - छलमन्विच्छन्तीति छलान्विषः-छलविलोककाः । अणुत्वाच्चपलत्वाच्च चित्तस्य बालकोपमानं; बालकस्य तु भूत-शाकिन्यादिग्रसन-निवारणार्थं गले ओषधयो बध्यन्ते, तेन चित्तबालकस्यापि दुर्ध्यानभूतग्रसननिवारणार्थं भावनाः शुभाध्यवसायलक्षणा अनित्यत्वादिद्वादश वा युक्ताः । भूता अपि नग्नत्वैकाकित्व-सन्ध्यासमयादिच्छलविलोककाः दुर्ध्यानान्यपि प्रमत्तत्त्वादिच्छलग्राहीणि भवन्ति, ततोऽयमुपदेश इति ।।१.१।।
[३६] यदिन्द्रियार्थैः सकलैः सुखं स्यान्
नरेन्द्र चक्रि-त्रिदशाधिपानाम् । तद् बिन्दवत्येव पुरो हि साम्य
सुधाम्बुधेस्तेन तमाद्रियस्व ||१.२।। १. षोडशभिः अधिकारैः-अर्थपदैः शास्त्र उपदेश्यपदस्य उपदेशार्हपदार्थसङ्ग्रहः - मु० ।