________________
समताद्वारम्
पुनः कीदृशः-संवरः-समित्यादिसप्तपञ्चाशद् भेदः सोऽस्यास्तीति संवरवान् । पुनः कीदृशः ? - शुभा वृत्तिः-वर्तनं यस्य स शुभवृत्तिः । ईदृशस्त्वं साम्यस्य रहस्यं-तत्त्वं भजत्यन्वयलेशः इति ।।४।।
धनवि.-नन्वेतानि कियन्ति द्वाराणि जातानीत्याकाङ्क्षायां सूत्रकार एव तानि व्यक्त्या गद्यबन्धेन दर्शयन्नाह – इति षोडशाधिकारैः शास्त्रोपदेश्यपदसंग्रह:
इति-अमुना प्रकारेणोक्तैः षोडशाधिकारैः-षोडशद्वारैः शास्त्रोपदेश्यपदसङ्ग्रहो भवतीत्यर्थः । इति षोडशाधिकारैः शास्त्रोपदेश्यपदसङ्ग्रहः ।
रत्न.-इति षोडशभिः अधिकारैः-अर्थपदैः शास्त्र उपदेश्यपदस्य-उपदेशार्हपदार्थस्य संग्रहः |
[३३] चित्तबालक ! मा त्याक्षी
रजस्रं भावनौषधीः । यत् त्वां दुर्ध्यानभूता न,
च्छलयन्ति च्छलान्विषः ||१.१।। धनवि.-अथ च ते कथं भवन्तीत्याकाङ्क्षायामाह -
यथा'इति, यथा-येन प्रकारेण षोडश द्वाराणि भवन्ति, तथाऽनन्तरमग्रे दर्श्यते इत्यर्थः ।
तत्र च प्रथमं समताद्वारं, समता च चित्ताधीनेति चित्तस्यैव प्रथममुपदिशन्नाहअत्र यत्-तदोर्नित्याभिसंबन्धात् तच्छब्दोऽहार्यः, तेन हे चित्तबालक-हे मनःशिशा ! तत्-तस्मात् त्वं अजस्रं-निरन्तरं भावनौषधीर्मा त्याक्षी: - मा त्यज'इत्यन्वयः, अत्र भाव्यते-वास्यते वैराग्येणात्मा याभिस्ता भावनाः । [३४] "साम्यं स्यान्निर्ममत्वेन, तत्कृते भावनाः श्रयेत्
अनित्यतामशरणं, भवमेकत्वमन्यताम् ।। [योगशास्त्र-३८१] ।। [३५] अशौचमाश्रवविधिं, संवरं कर्मनिर्जराम् ।
धर्मस्वाख्याततां लोकं, द्वादशी बोधिभावनाम्" [यो.शा.३८२] ।।