________________
श्रीअध्यात्मकल्पद्रुमे १३-विरतिधारी इत्यनेन सम्यग्देवादिस्वरूपज्ञानं च विरतिमत्येव भवतीति तदनन्तरं
सप्तपञ्चाशद्वृत्तैर्विरतिधारी-इतिद्वारं त्रयोदशमम् । १४-संवरवान्'इत्यनेन विरतिश्च संवरधारिण्येव भवतीति तदनन्तरं द्वाविंशतिवृत्तैः
संवरद्वार चतुर्दशमम् । १५-शुभवृत्तिः'इत्यनेन संवरवान् शुभवृत्तावेव भवतीति तदनन्तरं दशभिवृत्तैः
शुभवृत्तिद्वारं पञ्चदशमम् । १६-साम्यरहस्यम्'इत्यनेन शुभप्रवृत्तिश्च साम्यरूपे रहस्ये परिणते एव भवतीति तदनन्तरमष्टभिर्वृत्तैः साम्यरहस्यद्वारं षोडशमुक्तमिति ।।४।।
रत्न.-अथास्मिन् शास्त्रे षोडशाधिकारानभिधित्सुम्रन्थकृत् साम्योपदेशयोग्यं पुरुषमाह-समतैकलीनचित्त इति, वैराग्यशुद्धधर्मा' इति च युग्मम्,
व्याख्या-हे शिवार्थिन्-हे मोक्षाभिलाषिन् ! त्वं-साम्यरहस्यं समतोपनिषदं भज-श्रय । त्वं किंलक्षणः ? - समतायामेकम्-अद्वितीयं लीनं चित्तं यस्य सः, पुनः कीदृक् ? - ललना-स्त्री अपत्यं-पुत्रादि स्वं-धनम् देहः-कायः, तेषां ममतां मुञ्चतीति ललना-ऽपत्य-स्व-ममतामुक्, पुनः कीदृशः ? - विषयाः-शब्द-रूपगन्ध-रस-स्पर्शाः पञ्च, कषाया:-क्रोध-मान-माया-लोभाश्चत्वारः, विषयाश्च कषायाश्च विषय-कषायाः, ते आदौ येषां ते, विषय-कषायादयः, तेषाम-अवश:-न पराधीनः स विषय-कषायद्यवशः, आदिशब्देन राग-द्वेष-मत्सर-प्रमादादीनां ग्रहणम् । पुनः किं लक्षणः ? - शास्त्राणां जिनागमानां, गुणाः-पाप-पुण्ययोनिवृत्त्युपादेयलक्षणाः, तैर्दमितं-वशीकृतं चेतो येन सः - शास्त्रगुणैर्दमितचेतस्क: ।।३।।
पुनः किंलक्षणः ? - वैराग्येण भवविरक्ततालक्षणेन शुद्धो धर्मो यस्य स वैराग्यशुद्धधर्मा, द्विपदाद्धर्मशब्दाद्'अनि प्रत्यये धर्मा इति जातम् । पुनः कीदृशः ? दैवादीनां-सतत्त्वं-वेत्तीति देवादिसतत्त्ववित्, आदिशब्दाद् गुरु-धर्मयोर्ग्रहणम् । पुनः कीदृशः ? - विरतिं-पञ्चाश्रवाद् विरमणं धरतीत्वेवंशीलो विरतिधारी ।
१. प्रमादानां-मु० । २. वैराग्येण उक्तलक्षणेन भवति शुद्ध-मु० । ३. ...दीनां देव-गुरुधर्माणां स० मु०।