________________
अधिकारद्वाराणि १-समतैकलीनचित्त इत्यनेनाध्यात्मशास्त्रे शान्तरसे च समतैव मूलमिति
चतुस्त्रिंशवृत्तैः समताद्वारं प्रथमम् । २-ललना-ऽपत्य-स्व-देहममतामुग्, इत्यनेन समता च ललनाममतामोचने एव
भवतीति तदनन्तरमष्टभिर्वृत्तैः ललनाममतामोचनद्वारं द्वितीयम् । ३-ललनाममतामोचनं चा(त्व)पत्यममतामोचने एव भवतीति तदनंतरं चतुर्भिर्वृत्तैः
अपत्यममतामोचनद्वारं तृतीयम् । ४-अपत्यममतामोचनं च द्रव्यममतामोचने एव भवतीति तदनन्तरं सप्तभिर्वृत्तैर्द्रव्य
ममतामोचनद्वारं चतुर्थम् । ५-द्रव्यममतामोचनं च देहममतामोचने एव भवतीति तदनन्तरमष्ट-भिवृत्तै
हममतामोचनद्वारं पञ्चमम् । ६-विषय-कषायाद्यवश इत्यनेन देहममतामोचनं च विषयनिग्रहे एव भवतीति
तदनन्तरं नवभिर्वृत्तैर्विषयनिग्रहद्वारं षष्ठम् । ७-विषयनिग्रहश्च कषायनिग्रहे एव भवतीति तदनन्तरमेकविंशतिवृत्तैः कषायनिग्रहद्वारं
सप्तमम् । ८-शास्त्रगुणैः इत्यनेन कषायनिग्रहश्च शास्त्रैरेव भवतीति तदनन्तरं षोडशभिर्वृत्तैः
शास्त्रद्वारमष्टमम् । ९-दमितचेतस्क इत्यनेन शास्त्राणि च दान्तचित्तानामेव भवन्ति-इति तदनन्तरं
सप्तदशभिर्वृत्तैश्चित्तदमनद्वारं नवमम् । १०-वैराग्य..इत्यनेन चित्तदमनं च वैराग्ये सत्येव भवतीति तदनन्तरं
षड्विंशतिवृत्तैर्वैराग्यद्वारं दशमम् । ११-शुद्धधर्मा इत्यनेन वैराग्यं शुद्धधर्मप्राप्तावेव भवतीति तदनन्तरं चतुर्दशवृत्तैः
शुद्धधर्मद्वारमेकादशम् । १२-देवादिसतत्त्वविद्'इत्यनेन शुद्धधर्मप्राप्तिश्च देव-गुरु-धर्मस्वरूपज्ञाने एव भवतीति तदनन्तरं सप्तदशभिर्वृत्तैर्देवादिस्वरूपज्ञानद्वारं द्वादशमम् ।