________________
समताद्वारम्
- २३ ___धनवि.-नन्वनन्तरं सांसारिकसुखस्याणुतोक्ता समतासुखस्य च गुरुतोक्ता, सा च कथं भवति ? - इत्याकाक्षायामाह -
अदृष्ट. इति - अदृष्टं-पुण्य-पापरूपं, तस्य वैचित्र्यं-न्यून-न्यूनतरा-ऽधिकाऽधिकतररूप-नानात्वं, तद् वशात्-तदायत्तत्वात्, जगज्जने-त्रिजगज्जन्तुजाते, कथंभूते ? इत्याह-विचित्रं इति-विचित्राणि-नानाप्रकाराणि च तानि कर्माणि चकायव्यापाराः, आशयाश्च-मनोव्यापारा, वाचश्च-वाग्व्यापाराः तैर्विसंस्थुले अस्वस्थे सति, उदासवृत्तिः-माध्यस्थ्यवृत्तिः, तस्यां स्थिता-श्रिता चित्तवृत्तिः - मनोव्यापारो येषां ते एवंविधाः क्षतार्तयो-गतमनःपीडा यतयः सुखं श्रयन्ते-भजन्ते ।।१.३।।
रत्न.-अथ साम्याश्रयणे फलमाह -
अदृष्ट० इति, व्याख्या-यतयः सुखं श्रयन्ते - भजन्ते । किंलक्षणाः ? - उदासा चासौ वृत्तिश्च उदासवृत्तिः, तस्यां स्थिता चित्तवृत्तिर्येषां ते, उदासवृत्तिस्थितचित्तवृत्तयः, अत एव किंलक्षणाः ? - 'क्षिता:-क्षयं प्राप्ता अर्तयो येषां ते, क्षितार्तयः कस्मिन् सति ? - जगतां जनो जगज्जनः, तस्मिन्, किंलक्षणे ? - विचित्राणि कर्माणि विचित्रा आशया-जीवाभिप्राया विचित्रा वाचः, ताभिर्विसंस्थुलो-नानास्वभावः, तस्मिन् । कस्मात् ? - अदृष्टस्यपूर्वकृतकर्मणो वैचित्र्यं विचित्रत्वं तस्य वशः, तस्मात् । लाभाऽलाभे सुखे दुःखे प्रियाऽप्रिये समानं वर्तनमुदासवृत्तिः ।।१.३।।
[४४] विश्वजन्तुषु यदि क्षणमेकं,
साम्यतो भजसि मानस ! मैत्रीम् । तत् सुखं परममत्र परत्राप्यश्नुषे,
न यदभूत् तव जातु ||१.४।। धनवि.-नन्वनन्तरं सर्वसांसारिकसुखेभ्यः समतासुखस्य गुरुतोक्ता, सा च कथमनुभूयत ? इत्याकाङ्क्षायामुपदिशति -
१. क्षिताः इति मूलत्त्वेनापि पाठः, मुद्रिते तु 'क्षता०' इति पाठ | २. लाभेऽलाभे... प्रियेऽप्रिये इति मु०।