________________
३२७
शुभप्रवृत्तिशिक्षाद्वारम्
[४६०] मैत्री प्रमोदं करुणां च सम्यग्,
मध्यस्थतां चानय सात्म्यमात्मन् ! | सद्भावनास्वात्मलयं प्रयत्नात्, कृताविरामं रमयस्व चेतः ||१५.८।।
धनवि.-अथानन्तरोक्ताया दुःसाध्याया मनःशुद्धरुपायं दर्शयन्नुपदिशति -
'मैत्री' इति, हे आत्मन् ! मैत्री, च पुनः, प्रमोदं च पुनः, करुणां च पुनः, मध्यस्थतां सम्यग्-गुरूक्तयुक्त्या शास्त्रोक्तयुक्त्या वा, सात्म्यम्-आत्मना सहैकीभावम्, आनय-प्रापय; मैत्री-प्रमोद-कारुण्य-माध्यस्थ्यलक्षणम् [४६१] "मा कार्षीत् कोऽपि पापानि, मा च भूत् कोऽपि दुःखितः"
इत्यादि [ ] श्लोकैः पूर्वद्वारे प्रतिपादितं, कियदिति शेषं सविस्तरं योगशास्त्रवृत्तेरवसेयम् । च पुनर्,-आत्मलयं-संप्राप्ततन्मयस्वभावं यथा स्यात् तथा कृताविराम-निरन्तरं यथा स्यात् तथा सद्भावनासु-द्वादशसु सुप्रसिद्धासु चेतो-मानसं प्रयत्नाद्-उद्यमात् प्रमादराहित्याद् रमयस्व-क्रीडाविषयं कुरुष्व ।।१५.८ ।।
रत्न.-अथ त्रियोगीनैर्मल्यं मैत्र्यादिभजनेन भवतीत्याह -
मैत्री प्रमोदम्..इति. व्याख्या-हे आत्मन् ! मैत्री-परहितचिन्तालक्षणाम्, आनय, स्वस्मिन्नित्यध्याहार्यं स्वायत्तां कुर्वित्यर्थः, तथैव प्रमोदं-परसुखं दृष्ट्वा संतोषकरणरूपं, तथा करुणां-परदुःखनिवारणलक्षणां च पुनर्मध्यस्थतां-परदोषोपेक्षणस्वरूपाम्, आनय, कथं ? - सम्यक्, त्रिधा मनो-वचः-कायशुद्ध्या, च पुनर्हे आत्मन् ! एवं चतुर्भिमैत्री-प्रमोद-करुणा-मध्यस्थताकरणलक्षणहेतुभिः साम्यं-समत्वमानय, रागद्वेषाऽनुपेतत्व-मित्यर्थः, तथा साम्यकरणेनैव सद्भावनासु चेतः-चित्तं रमयस्व, किंलक्षणम् ? - आप्तो लय-एकाग्र्यं येन तत्, कस्मात् ? - प्रयत्नाद्-उद्यमात् तथाविधवीर्यस्फोरणादित्यर्थः कथं ? - कृताविराम-कृताऽनुपरमं यथा स्थात् तथा अविश्रान्तमित्यर्थः, अथवा सद्भावनासु सु-सुष्ठु आप्तः-प्राप्तो लयो येन १..रूपां. मु० । २. 'साम्य' इति पदमिदं मूलत्वेनापि गृहीतम् ।