________________
३२८
तत् सद्भावनास्वाप्तलयम्' इत्यखण्डं [पदम्] ।।१५.८।।
-
धनवि . - अथानन्तरोक्तमनःशुद्धिकरणोपायं तत्फलं च दर्शयन्नुपदिशति - 'कुर्या' इति, हे प्रभो ! हे समर्थ ! कुत्रापि-शय्योपधिपुस्तकादिवस्तुनि, ममत्वभावं-ममेदमिति बुद्धिलक्षणां ममतां न कुर्यामा विदध्याः च पुनर्, रत्यरती न कुर्याः, तत्र रतिश्च - सुन्दरवस्तुष्वासक्तिलक्षणा, इष्टविषयेषु मोहनीयोदयाच्चित्ताभिरतिर्वा, अरतिश्च - असुन्दरवस्तुनि प्रद्वेषलक्षणा, अनिष्टविषयेष्वरतिमोहनीयोदयाच्चित्तोद्वेगो वा च पुनः कषायान् क्रोधादीन् न कुर्याः; हि-यतः कारणाद्, हे आत्मन् ! इहापि मर्त्यलोकेऽपि, अनुत्तरामर्त्यसुखाभम्-अनुत्तरविमानवासिसुरानुभवयोग्यसुखसदृशं सौख्यं सुखम्, अनीहो निःस्पृहः सन् लभसे-अधिगच्छसि; ममतादिदोषरहितस्य साधोरिहापि सर्वातिशायि सुखं भवतीति भावः यदुक्तम् "नैवास्ति राजराजस्य " इत्यादिनेति । । १५.९ ।।
रत्न. - अथ मैत्र्यादि तु ममत्वत्यागेन भवतीत्याह
·
हे समर्थ ! कुर्या न कुत्रापि ..इति व्याख्या- हे आत्मन् ! हे प्रभो ! त्वं कुत्रापि वस्तुनि ममत्वस्य भावो भावनं चिन्तनमित्यर्थः तं न कुर्याः, न विदध्याः, च पुनः, रतिः - रागः अरतिः - तदितरा, ते उभे अपि न कुर्याः, शुभे वस्तुनि रतिम्, अशुभे वस्तुन्यरतिमित्यर्थः, तथा कषायांश्चाप्येवमकुर्वन् त्वमिहापिइह लोकेऽपि, अनुत्तराणां - १. विजय २. वैजयन्त ३. जयन्ता ४ ऽपराजित ५. सर्वार्थसिद्धानां पञ्चानाममर्त्याः- देवास्तेषां सुखं तेना -ऽऽभं सदृशं सौख्यं, हि यस्मात् कारणाल्लभसेऽपि प्राप्नोषि । अपि, अपिः संभावनायां त्वं कीदृशः ?
·
-
श्रीअध्यात्मकल्पद्रु
[४६२] कुर्या न कुत्रापि ममत्वभावं, न च प्रभो ! रत्यरती कषायान् । इहापि सौख्यं लभसेऽप्यनीहो, ह्यनुत्तरामर्त्यसुखाभमात्मन् ! ।।१५.९।।
-
न विद्यते ईहा वाञ्छा अवन्तीसुकुमालस्येव नलिनीगुल्मविमान इव कस्मिन्