________________
३२६
श्रीअध्यात्मकल्पद्रुमे [४५९] परस्य पीडापरिवर्जनात् ते,
त्रिधा त्रियोग्यप्यमला सदाऽस्तु । साम्यैकलीनं गतदुर्विकल्पं,
मनो वचश्चाप्यनघप्रवृत्ति ||१५.७ ।। धनवि:-अथ 'परपीडावर्जनाद् योगत्रयस्य शुद्धिर्भवतीति दर्शयन्नुपदिशति
'परस्य पीडा' इति, परस्य-स्वव्यतिरिक्तस्य प्राणिनः, त्रिधा पीडापरिवर्जनात्करण-कारणा-ऽनुमतिलक्षणप्रकारत्रयेण बाधानिषेधात् ते-तव, त्रियोग्यपि-मनोवचः-कायलक्षणा योगत्रय्यपि, सदा-सर्वकालम् अमला-निष्पापा, अस्तु-भवतु; अत्र यत इत्यध्याहार्यम्, तेन यतः कारणात्, त्रिधा परस्य पीडावर्जनात् तव मनोऽपि साम्यैकलीनं-केवलसमताभावभावितं गतदुर्विकल्पं-नष्टदुष्टचिन्तासंतानं च, भवतीति योगः, च पुनः, परस्य पीडापरिवर्जनात्, तव च वचोऽपिवचनमपि, अनघप्रवृत्ति-निरवद्यव्यापारं, भवतीति योगः । ननु योगत्रयस्य शुद्ध्यधिकारे प्रकृते मनोयोग-वाग्योगयोः शुद्धिरत्रोक्ता कथं न काययोगस्य शुद्धिरिति चेत् ? न, काययोगशुद्धेरितरापेक्षया सुखसाध्यत्वादिति ।।१५.७।।
रत्न.-अथ सद्विचारवान् त्रियोगी निर्मलां धत्ते इत्यर्थे आह -
परस्य पीडा..इति. व्याख्या-हे आत्मन् ! ते-तव, परस्य-स्वस्माद् भिन्नस्य पीडापरिवर्जनात् मनो-वचः-कायरूपाणां योगानां समाहारस्-त्रियोगी अप्यमलाविमला विशुद्धाऽस्तु, पापपङ्करहितेत्यर्थः । कथं ? - त्रिधा करण-कारणाऽनुमतिभिः, कथं ? - निरन्तरं, अथ मनो-वचसोर्दुर्निवारत्वेन विशेषतः पृथक् निर्दिशन्नाह-मनो वचश्चापि अनघा प्रवृत्तिर्यस्य तद्, अनघप्रवृत्त्यस्तु, किंलक्षणं? - गता दुर्विकल्पा-दुष्टचिन्तनानि दुष्टजल्पनानि वा यस्मात् तद्, ईदृशी एव मनो-वचसी अनघप्रवृत्तिनी स्त इति द्वे अपि समर्थविशेषणे इति, अथवा 'साम्यैकलीनं गतदुर्विकल्पमस्तु'इति मनस एव विशेषणं, वचश्चाप्यनघप्रवृत्ति [इति] वचस एव विशेषणमित्यपि व्याख्यानं कार्यम् ।।१५.७ ।।