________________
शुभप्रवृत्तिशिक्षाद्वम्
३२५
कृतोऽयं च न कृत' इति पर्यालोचय; अत्र तपश्च द्वादशभेदं, जपश्च नमस्कारादिमन्त्रजापः, तपो - जपौ तौ आदौ - प्रथमं यस्य सुकृतस्य तत्- तपोजपादि, कृतं च-निर्मितम्, अकृतं च- अनिर्मितं कृताकृतमिति च पुनः, स्वस्य सुकृतेतरे-सुकृतं च-पुण्यम्, इतरच्च पापं समाहारद्वन्द्वे सुकृतेतरत्-पुण्यपापं तस्मिन्, शक्तीः,-सामर्थ्यानि, अशक्तीः, -असामर्थ्यानि, हृदा- मनसा सदा-सर्वकालं समीक्षस्व-इदं सुखसाध्यं तपो - जपादि सुकृतं शक्यम्, इदं च कष्टसाध्यं तपोजपादि सुकृतमशक्यमिदं चाल्पप्रमादसेवनलक्षणं पापं शक्यम्, इदं च नृपाङ्गनाद्यासेवनलक्षणं पापमशक्यम्, इति सम्यग् विलोकयेत्यर्थः; अथसमीक्षणानन्तरम्, अव्ययार्थी-मोक्षार्थी सन्, शक्त्यविषयस्य सुकृतस्यासाधकत्वेन साध्ये-शक्तिगोचरे सुकृते यतस्व-यत्नं कुरुष्व; च पुनर्हेयं शक्यमशक्यं च पापम्, अव्ययार्थी सन् त्रिधा त्यज परिहर - मुञ्चेत्यर्थः ।।१५.६।।
रत्न. - अथ सदुपदेशवान् कृता ऽकृततपःप्रभृतिविचारको भवति, तत्रार्थे
आह
-
,
,
कृता-ऽकृतम्-इति. व्याख्या - हे यते ! - हे आर्हत ! त्वं स्वस्य- आत्मनस्तपोजपादि कर्म कृतं चाकृतं च कृताकृतं समीक्ष्य- विचार्य, 'इदं मया तपः कृतम् ? इदं च न कृतं, तथा अयं जपः कृतो न कृतश्च' इति समीक्ष्येत्यर्थः, आदिशब्देन क्रियानुष्ठानादीनां ग्रहणं, तथा शक्तीरशक्तीश्च समीक्ष्य, 'सांप्रतं ममास्मिन् तपसि जपे वा शक्तयः सन्ति ? उत न सन्तीति च ताः प्रति समीक्ष्य, तथा सुकृतं, सुकृतादितरद्- असुकृतं पुण्य-पापं च ते उभे अपि प्रति समीक्ष्य, 'अस्मिन् कृते सुकृतं भावि ? उत चास्मिन् कृतेऽसुकृतं भावि' ? इत्यपि समीक्ष्येत्यर्थः, कथं ? - सदा निरन्तरं केन ? - स्वहृदा - स्वहृदयेन, उत्तमानां गुरूपदेशो बीजप्राय एव भवेत्, तद्विस्तरस्तु स्वहृदयविचारणजलसेकाद् भवति, अथैतत् सर्वं समीक्ष्य साध्ये - स्वस्य साधनयोग्ये, यतस्व - उद्यमं कुरु, च पुनर्हेयंत्याज्यं सुकृतेतरदित्यर्थः त्यज-मुञ्च, किं लक्षणः ? सन्, एतत् सर्वं विचारपूर्वकं कुर्वित्यर्थः ।।१५.६ ।।
"
अव्ययस्य-मोक्षस्यार्थी
-