SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३२२ श्रीअध्यात्मकल्पद्रुमे सन्-ऋद्ध्यादिगारवरहितः सन् भैक्ष-भिक्षाकर्म कुर्वन्निति शेषः, अट-भ्रमेत्यर्थः, विशुद्धे-निर्दोषे हेतौ-मोक्षकारणे ज्ञान-दर्शन-चारित्रलक्षणे, अविषादी-श्रमरहितः सन्, पुनः किंविशिष्टः? - वशितेन्द्रियौघा-जितेन्द्रियसमूहः सन्, अथवा लाभेऽगारवः सन्नलाभेऽविषादी सन् भैक्षं-गौचरचर्यामट, विशुद्धे हेतो समग्रभोगसामग्र्यां सत्यां वशितेन्द्रियौघः सन्नित्यर्थः ।।१५.४।। रत्न.-शीलवान् स्वाध्यायादिना मनो वशीकरोतीति स्वाध्यायाधुपदेशमाह स्वाध्यायोगेषु..इति. व्याख्या-हे यते ! त्वं स्वाध्यायानां पठितागमप्रभृतिशास्त्रप्रतिदिनस्मरणलक्षणानां, योजनानि-करणानि योगास्तेषु, अथवा स्वाध्यायैः कृत्वा मनो-वचः-कायलक्षणेषु योगेषु यत्नं दधस्व उद्यमं कुरु, स्वाध्यायैः कृत्वा मनोवचनः-कायान् संवृणु इत्यर्थः, तथा आगमार्थान्-अर्हत्प्रवचनाभिधेयानि मध्यस्थवृत्त्यास्वकदाग्रहा-ऽननुसारेण यथार्थाननुसर-कथय, तथा कुरुष्वापीत्यनेन स्वमतकदाग्रहग्रस्तो जिनवचनमन्यथा मा वदेति सूचितं, तथा अगारव-ऋद्धिरस-सात-गारवत्रयरहितः सन्, भिक्षाणां समूहो भैक्षं, तत् प्रति अट-गृहस्थगृहेषु याहीति, परं किंलक्षणः ? - अविषादी-अप्राप्तौ कुत्सितप्राप्तौ वा विषादरहितः, क्वचिद् अगौरवो भैक्षमट इतिपाठे गौरवमभ्युत्थानादि, न विद्यते गौरवं यस्य सः अगौरवो भैक्षमट, भिक्षायै गतो मा बहुमानं वाञ्छेत्यर्थः, त्वं किलक्षणः ? - इत्यादिहेतौ इन्द्रियजयकारणे विशुद्ध-निर्मले सति वशीकृत इन्द्रियाणां श्रोत्रादीनामोघः-समूहो येन स इति ।।१५.४ ।। [४५६] ददस्व धर्मार्थितयैव धान्, सदोपदेशान् स्वपरादिसाम्यात् । जगद्धितैषी नवभिश्च कल्पैर्ग्रामे कुले वा विहराप्रमत्तः ||१५.५।। १. धनवि-टीकायां अत्र द्वन्द्वः, तेन आगमपठनविधिरुक्ता, रत्नवि.-टीकायां तु षष्ठी, तेन स्वाध्यायं कुरु इत्युपदेशः, तथा तृतीया, तेन तु स्वाध्यायस्य फलं - मनो-वचन-काय-संवरणं भवति-इति संदर्शितम् ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy