SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ शुभप्रवृत्तिशिक्षाद्वारम् धनवि . – पुनः शुभप्रवृत्तिमुपदिशति - 'ददस्व' इति, हे मुने ! त्वं धर्मार्थितयैव स्व-परादिसाम्यात् धर्म्यान् धर्मेणोपेतान् निष्पापान्, उपदेशान्-हितशिक्षावचनानि, ददस्व- देहि, तत्र धर्मः पुण्यं स एवार्थो यस्य स धर्मार्थी, तस्य भावो धर्मार्थिता, तया धर्मार्थितया, अत्र एवकारेण न तु वस्त्रा-ऽऽहाराद्यर्थितया इत्यन्ययोगव्यवच्छेदः, स्व- परादिसाम्यान्- स्वश्च - आत्मा सुहृद्वा परश्च- आत्मव्यतिरिक्तः शत्रुर्वा, स्व-परौ तावादी येषां ते स्व-परादयः तेषां साम्यं-समभावः प्रतिपाद्यं येषु तान् स्व-परादिसाम्यान्, समतारसप्रतिपादकानित्यर्थः, आदिपदाद्- १. अहि-हार २. कुसुमशय्या - शिलातल ३. मणि-लोष्ठ ४. तृण- स्त्रैणा -ऽऽदिपरिग्रहः, स्व-परादिसाम्यात् इतिपञ्चम्यन्तपाठे तु स्वपरप्रमुखश्रोतृषु राग-द्वेषराहित्येन समताभावादित्यर्थः ; च पुनर् - जगद्धितैषी - जगतां हितं-पथ्यमिच्छतीति, तथा सन्, अप्रमत्तः प्रमादरहितः सन् ग्रामे - वृत्त्यावृते उपलक्षणत्वाज्जनपद-नगरा - ऽऽकरादौ वा अथवा शक्त्यभावे कुले - उग्रकुलराजन्यकुल-क्षत्रियकुललक्षणे 'भिक्खमाणो कुले कुले' इत्युत्तराध्ययन [ ] वचनाद् गृहे गृहे, उच्चनीयलक्षणेऽजुगुप्सिते वा नवभिः कल्पैः- नवसङ्ख्योपेतैः कल्पैःसाध्वाचारैः ऋतुबद्धकालेऽष्टौ मासकल्पाः चतुर्मासककाले एकश्चतुर्मासककल्पः एवं प्रकारैर्विहर-विचर, एवं विहारे च भगवदाज्ञाऽऽराधिता स्याद्, आज्ञा चैवं 'मोत्तूण मासकप्पं अन्नो सुत्तंमि नत्थि उ विहारो [ ] त्तिं' कदाचित् संयमबाधकारिदुर्भिक्षग्लन्यादिकारणवशाद् द्रव्यतो मासकल्पातिक्रमे भावतो वसति पाटकपरावर्त्तनेनापि चायमवश्यं विधेय एव यदुक्तम् - ३२३ [४५७] "कालाइदोसओ पुण न दव्वओ एस कीरए नियमा । भावेण उ कायवो संथारगवच्चयाईहि ।। [ ] ।।" इति ।।१५.५ ।। १. मुक्त्वा मासकल्पं अन्यः सूत्रे नास्ति तु विहार इति । २. कालादिदोषतः पुनर्न द्रव्यत एष क्रियते । नियमात् भावेन तु संस्तारकव्यत्ययादिभिः कर्तव्यः 11911
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy