SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३२१ शुभप्रवृत्तिशिक्षाद्वारम् विशुद्धशीलाङ्गसहस्रधारी भव, [४५४] जे नो करंति मणसा निज्जियआहार-सन्न-सोइंदी । पुढवीकायारंभं खंतिजुआ ते मुणी वंदे ।।[ ]।। इत्यादिगाथोक्ताऽष्टादशसहस्रगाथाप्रमाणस्वाध्यायधारको भवतीति तात्पर्यार्थः, दुष्टमनो-वचः-काययोगानां निवृत्तिकारणत्वाच्छीलाङ्गत्वं चैषामिति, कथम् ? - अनिशं-निरन्तरं, किंलक्षणः ? - निर्मिता मनो-वचः-कायानां सिद्धिः-साधनं येन सः, निर्मितदुष्टमनो-वचः-काययोगनिवृत्तिक इत्यर्थः, अथवा निर्मिता योगानामष्टाङ्गानां सिद्धिर्येन स इत्यपि व्याख्याप्रपञ्चः, अन्यच्चोपसर्गान्-देवादिकृतान् यतिषु गजसुकुमालर्षि-चिलातीपुत्र-मेतार्यमुनिप्रभृतिवद्, गृहस्थेषु कामदेवादिवत्, सहस्व-क्षमस्व, परं किंलक्षणः सन् ? - तनौ-शरीरे निर्ममः सन्, तनुनिर्ममत्वे सत्येवोपसर्गसहनं भवतीति, तथा गुप्तीस्तिस्रो मनो-वचः-कायानां भजस्व, च पुनः समितीः पञ्चेर्याभाषैषणादाननिक्षेपपारिष्ठापनिकाः प्रति भजस्व, श्राद्धास्यापि कृतपौषधस्य कृतसामायिकस्य चोपसर्गसहनं गुप्ति-समित्याराधनं च भवतीति न काऽपि विप्रतिपत्तिः ।।१५.३।। [४५५] स्वाध्याययोगेषु दधस्व यत्नं, मध्यस्थवृत्त्याऽनुसरा-ऽऽगमार्थान् । अगारवो भैक्षमटा-ऽविषादी, हेतौ विशुद्ध वशितेन्द्रियौघः ||१५.४।। धनवि.-अथानन्तरोक्तप्रवृत्तौ कारणभूतां प्रवृत्तिमुपदिशति - 'स्वाध्याय' इति, त्वं स्वाध्याय-योगेषु यत्नं प्रयत्नं दधस्व-कुरुष्वेत्यर्थः, अत्र स्वाध्यायश्च-वाचनादिकः पञ्चप्रकारः, योगाश्च-उद्देश-समुद्देशा-ऽनुज्ञादिरूपानुष्ठानविशेषास्तेषु; च पुनर-मध्यस्थवृत्त्या-राग-द्वेषराहित्येन, आगमार्थान्-सिद्धान्तोक्तभावान्, अनुसर-अनुगच्छ, आगमार्थानुसारेण विचरेति भावः, च-पुनस्,-त्वम्-अगारवः १. अगौरवो० मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy