SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३२० श्रीअध्यात्मकल्पद्रुमे कटूनीत्युपचारात्, पुनः किंलक्षणानि ? - आयतौ-उत्तरकाले स्वर्गादिसुखदायित्वात् सुन्दराणि-मनोहराणि, यद्-यस्मात् कारणात् तान्येव तपांसि कुकर्मणांज्ञानावरणीयादीनां राशिं पुजं निघ्नन्ति, इव यथा रसायनानि-राजवैद्यै वा॑लितसुवर्णादिधातुसाधितानि विविधानि, मुखे-आनने दीयमानानि कटूनिदुरास्वादानि परमायतौ सुन्दराणि दुरामयान्-दुष्टरोगान् राजयक्ष्मप्रभृतीन् घ्नन्तीति ||१५.२।। [४५३] विशुद्धशीलाङ्गसहस्रधारी, भवानिशं निर्मितयोगसिद्धिः । सहोपसाँस्तनुनिर्ममः सन्, भजस्व गुप्तीः समितीश्च सम्यग् ।।१५.३।। धनवि.-अथ ब्रह्मचर्यादिविषयां शुभप्रवृत्तिमुपदिशन्नाह - 'विशुद्ध' इति, निर्मितयोगसिद्धिः सन्, अनिशं-निरन्तरं विशुद्धशीलाङ्गसहस्रधारी त्वं भव, अत्र विशुद्धशीलाङ्गसहस्रधारी-विशुद्धं-निरतिचारं च तच्छीलं च-आचारो ब्रह्मचर्यरूपः तस्या-ऽङ्गानि कारणानि "जे नो करंति मणसो" इत्यादीनि तेषां सहस्रं धारयतीति तथा; निर्मित-योगसिदधिः-निर्मितानिष्ठां नीता, योगस्य-मनो-वाक्-कायैकाग्र्यस्य ज्ञान-दर्शन-चारित्रसंनिपातलक्षणस्य वा योगानां वा-प्राणायामादीनां सिद्धिः-निष्पत्तिर्येन स तथा, च पुनस, तनुनिर्ममः सन्-शरीरममतारहितः सन्, उपसर्गान्-क्षुत्-पिपासादीन् सह-क्षमस्व;, च पुनः, सम्यग्-यथागमोक्तरीत्या गुप्ती:-मनोगुप्त्यादिकाः, समिती-ईर्यासमित्यादिका भजस्वसेवस्व ।।१५.३।। रत्न.-अथ तपःकारी शीलवान् भवतीति शीलोपदेशमाह - विशुद्धशीलाङ्ग..इति. व्याख्या-हे यते ! - हे आहेत ! शीलस्यसदाचारस्याङ्गानीव शीलाङ्गानि विशुद्धानि च तानि शीलाङ्गानि च विशुद्धशीलाङ्गानि, तेषां सहस्राण्यष्टा-दशप्रमाणानि धरसी(ती)त्येवंशीलो
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy