SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ शुभप्रवृत्तिशिक्षाद्वारम्__ निश्चितं वैद्योक्तमप्यौषधं यद्-यतो हेतोरामयान् - रोगान् न हन्ति-नापनयति, किंलक्षणम् ? अत्रोपनयः सुगमत्वात् स्वयमभ्यूयः ।।१५.१ ।। अभुक्तं सत्, न चाप्यशुद्धम् अपक्वहरितालरसायनादि, [४५२] तपांसि तन्याद् विविधानि नित्यं, मुखे कटून्यायतिसुन्दराणि । निघ्नन्ति तान्येव कुकर्मराशि, रसायनानीव दुरामयान् यत् ।।१५.२।। ३१९ धनवि . - कर्मक्षपणहेतुत्वसाधर्म्येणावश्यकप्रभृत्युपदेशानन्तरं तपःप्रवृत्त्युपदेशमादिशति मुखे-करणकालस्यादौ कटूनि-क्षुत्-पिपासा ऽऽदिसहनजनित दुःखोत्पादकत्वेन कटुकरसानि, आयतिसुन्दराणि - आयतौ-करण - कालादुत्तरकाले तपोभिर्जनितशुभकर्मानुभवकाले सुन्दराणि - आनन्ददायकानि विविधानि - नानाप्रकाराणि, तपांसितपःकर्माणि नमस्कारसहितादि - षाण्मासिकतपःपर्यन्तानि नित्यम् - अनवरतं, तन्यात्कुर्यादिति यद्-यस्मात्, तान्येव तपांसि कुकर्मराशि- अशुभकर्मसमूहं निघ्नन्तिनितरां विनाशयन्ति, अत्र दृष्टान्तमाह- इव यथा रसायनानि - पारदप्रभृतीनि तथाविधभेषजानि दुरामयान्- कु [-कुष्ठप्रभृतिदुष्टरोगान् निघ्नन्ति, अत्र रसायनस्य तपःकर्मणश्चोपमानोपमेयभावः कुकर्मराशेर्दुरामयस्यापि चोपमानोपमेयभाव इति , ।।१५.२।। रत्न. - आवश्यकेषु तप आयातीति तपउपदेशमाह तपांसि तन्यात्..इति. व्याख्या - यतिरार्हतो वा विविधानि विचित्राणि षष्ठाऽष्टमा-ऽर्द्धमास-मासक्षपण- कनकावलि - मुक्तावलि - गुणरत्न-संवत्सरा-ऽऽचामाम्लवर्द्धमान-घनर्षितपःप्रभृतीनि तपांसि तन्यात् कुर्याद् धातूनामनेकार्थत्वात्, तनिः अपि करणार्थं ब्रूते, अथवा विस्तारयेदिति च, किंलक्षणानि ? कटूनीव कटूनि-तीक्ष्णानि, कस्मिन् ? - मुखे आदौ प्रथमतः क्रियमाणानि कष्टदायित्वात् · -
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy