________________
३१६
श्रीअध्यात्मकल्पद्रु
आत्मनः संवरो भवेदिति, अत्र संक्रियन्ते - निर्वार्यन्ते समागच्छन्ति कर्माणि यस्मात् स संवरः; ननु निःसङ्गतायां सत्यां संवरो भवति सति च संवरे निस्संगता भवति, तथा चान्योऽन्याश्रय इति चेत् ? न, क्वचित् कस्यचिन्निःसङ्गतायां सत्यां संवरो भवति, कस्यचित् क्वचित् संवरे सति निःसङ्गता जायते इति पुरुषभेदेन कालभेदेन स्थानभेदेन वाऽन्योऽन्याश्रयस्यासत्त्वात्; न चैवमननुगमः, प्रामाणिकगौरववत्प्रामाणिकाननुगमस्याप्यदोषत्वात्; शिवार्थी पुरुषस्तत्- निःसङ्गतासंवरलक्षणद्वयं युगपत् - समकालं मोक्षसाधनं भजेत - श्रयेदिति ।। १४.२२ ।।
।।१४।।
इति श्रीतपा० महोपाध्यायकल्याणविजय शिष्योपाध्याय श्रीधनविजयगणिविरचितायामध्यात्मकल्पद्रुमटीकायां मिथ्यात्वादिसंवरोपदेशनाम्नी चतुर्दशी पदपद्धतिः
-
१.
रत्न. - अथैतदधिकारेपसंहारमाह
तदेवमात्मा इति. व्याख्या-तत्- तस्मात् कारणादेवं अमुना प्रकारेणात्माकृतसंवरः सन् सततं-निरन्तरं सुखेन निःसङ्गतां भजतीति निस्सङ्गताभाक् स्याद्, अथ निःसङ्गभावात्-निरीहभावात् कृतसंवरः स्याद्, अन्योऽन्यं कार्यकारणव्यवहारोऽस्तीत्यर्थः, तत्कारणाच्छिवार्थी पुमान् द्वयं-संवर-निस्सङ्गभावौ' युगपत्-स् भजेतेति ।।१४.२२ ।।
- समकालं
—
·
[४४४] श्रीशान्तिचन्द्रवरवाचकदुग्धसिन्धुलब्धप्रतिष्ठवरवाचक्ररत्नचन्द्रः । अध्यत्मकल्पफलदस्य चकार टीका, तत्राऽगमद् भवनमानकृतोऽधिकारः ।।१४।।
इति चतुर्दशोऽधिकारः ।।
...णात्मा कृतसंवरः - मु० । २. भावोन्नतिं युग... मु० । २. 'वृत्तिं' मु० ।